Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailascagarsuri Gyanmandir
अष्टसहस्री
परिच्छेदः नवमः॥
विवरणम्॥
॥३३॥
यत्वेऽनुकम्पादानादेरपि तथात्वापत्तेः। न द्वितीयः, प्राग्दशायामारुरुक्षुतयारूढत्वस्याप्रसङ्गेनैतत्पातित्यपरिहारार्थताया दुरापास्तत्वात् । न तृतीयः, स्वातन्त्र्येण निर्जरार्थताया उत्तरदशायामप्यव्याहतत्वेन तदा विषकुम्भत्ववचनस्यैव विषकुम्भत्वापत्तेः । अत एव न चतुर्थादयः, सिद्धयोगस्य योगसाधनानपेक्षणात् , पूर्व तु तदपेक्षावश्यकत्वात् ॥ अष्टमोऽवशिष्यते, सोऽपि, “ यान्येव साधनान्यादौ, गृण्हीयाद् योगसत्वकः (साधकः) ॥ सिद्धयोगस्य तान्येव, लक्षणानि विदुर्बुधाः॥१॥" इत्युक्तरीत्या निर्लोठनीयः । शमदमादीनामिव प्रतिक्रमणादिक्रियाया उत्तरदशायां योगिनो लक्षणत्वेन विषकुम्भत्वायोगात् , प्रत्युत स्थिरामृतकुम्भत्वस्यैव सिद्धेः, न चाव्यभिचारिलक्षणत्वाभावान्नैवं, स्वकालेऽव्यभिचारित्वात् , पर्यन्ते तु शुद्धधर्मसन्न्यासोत्पत्तौ क्षायोपशमिकानां शमदमादीनामपि नाशोपगमात् , तस्मात् पूर्वोत्तरभूमिकयोर्वचनासङ्गानुष्ठानतयैव क्रियामेदो यथाऽस्मत्साम्प्रदायिकैर्लक्षितस्तथा श्रेयान् , न तु परोक्तामृतविषकुम्भदृष्टान्तेन, परायां दृष्टौ समाधिकाले आरूढारोहणाभावन्यायेन क्रियाया अनुपयोगाभिधानं तु शमादेरिवाभिनवग्रहणापेक्षया, न तु विषकुम्भत्वदृष्ट्या, प्रतिपन्ननिर्वाहस्यान्ततो लोकशिक्षार्थ परमयोगिनोऽप्यभिधानात् , शुभोपयोगकालेऽपि साधोः क्रियातोधर्मप्राप्तिश्च पुष्टिशुद्धिमचित्तान्वयेन लक्षणीया, तस्यैवोभयोपयोगसाधारणत्वेन धर्मलक्षणत्वात् , उभयसंवलनेऽपि शुद्ध्याधिक्येन साधोधर्माधिकारित्वाव्याहतेः, अधिकारद्वयफलदयकल्पनायां गौरवाच्चारित्रधर्मप्रवृत्तावशुभोपयोगराहित्यस्यैकाधिकारस्यैव कल्पने लाघघात् , गुप्तिमत एवाधिकारित्वे तु गुप्ति त्वमेकं प्रवीचाराप्रवीचारसाधारणमधिकारतावच्छेदकमेकं कल्पनीयम् , किंबहुना धर्मार्थिक्रियायामनुषङ्गतः पुष्टेः प्राधान्यतश्च शुद्धराप्तिरिति न काचन क्षतिः। एवं च स्थिरादिदृष्टिमतां सूत्रोक्ता प्रतिक्रमणादिक्रिया रत्नशिक्षानियोजनदृष्टिवद्भिन्नभिन्नैव
॥३३०॥
For Private And Personal Use Only

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793