Book Title: Anusandhan 2017 11 SrNo 73
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्टेम्बर २०१७
न यत्यलङ्कारकलाविभूषितं विभूषितं किन्तु वचोऽममाऽनिशम् । ममाऽनिशं तेन महामहोदयं, महोदयं संभवतान्मनोहरम् ॥१०॥ अवचूरिः हे अमम ! मम वचः यति- अलङ्कार - कलाविभूषितं न वर्तते, किन्तु विभुना - स्वामिना, उषितं कृतवासं वर्तते, स्वामी स्तुतोऽस्तीति भावः; अनिशं-निरन्तरं, मम तेन कारणेन शं-सुखं सम्भवतात्, कथम्भूतं शम् ? अनि: -इ :- कामस्तेन रहितं निःकामं सुखमिति भावः, किंविशिष्टं शम् ? महामहोदयं, महान् महस्य - उत्सवस्य उदयो यस्मात्; तत्पुनः किंविशिष्टः ? महः - तेजो, दयते-ददातीति महोदयं, मनोहरं - मनोज्ञम् ॥१०॥
"
१९
पूज्य श्रीजयशेखरस्य सुगुरोः प्रौढप्रसादान्मया माणिक्योत्तरसुन्दरेण विहितः सिंहावलोकस्तवः । देवश्री ऋषभस्य तस्य पठने प्रीतिं परां तन्वतां भव्यानां भवतु प्रसन्नमनसां माङ्गल्यलक्ष्मीः सदा ॥११॥ इति वृषभस्तुतिः॥ अवचूरि : माणिक्योत्तरसुन्दरेण माणिक्यसुन्दरसूरिणा ॥ ११ ॥
इति श्रीवृषभस्य सिंहावलोकनस्य स्तवस्य व्याख्या सम्पूर्णा ||श्रीः ||
=x=

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86