Book Title: Anusandhan 2009 00 SrNo 47
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 11
________________ अनुसन्धान ४७ छन्दोलक्षणप्रकरणस्य तत्प्रस्तुतत्वेन प्रामाण्यमाह-गाथाछन्दो वक्ष्ये । गीयत इति गाथा वक्ष्यमाणलक्षणा तस्याश्छन्दो-रचनाविशेषो गाथाछन्दस्तद् वक्ष्येअभिधास्ये । किविशिष्टामित्याह-लक्षणलक्ष्याभ्यां, लक्षणं-उक्तस्वरूपं लक्ष्य च लक्षणगम्योऽर्थः, ताभ्यां युक्तं-संगतमिति । इह नत्वा वाणीमिति मङ्गलं, गाथाछन्दोभिधेयमभिधानं त्विदमेव प्रकरणमभिधाना-भिधेयलक्षणश्च सम्बन्धः प्रयोजनं च कर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणाधिगमः, परम्परं च द्वयोरपि मुक्तिरिति गाथार्थः ॥१॥ इदानीं प्रकृतार्थोपयोगिनी संज्ञां परिभाषां च तावदाहदीहक्खरं सबिंदुं संजोगविसग्गवंजणपरं वा । गाहादलमंतिमं च गुरुं वंकं दुमत्तं च ॥२॥ दीहत्ति । विभक्तिलोपाद् दीर्घ, न क्षरति-न चलति प्रधानत्वादक्षरं स्वरसतया विशिष्टमपि स्याद् अतो दीर्घमिति विशेषणादक्षरं, हुस्वपञ्चकवर्जिता शेषस्वरा, "नित्यं सन्ध्यक्षराणि दीर्घाणी"ति वचनात् सन्ध्यक्षराणामपि दीर्घत्वाद् । गुरु वक्रं द्विमानं च भवतीति सर्वत्र सम्बन्धः । तथा सबिन्दु-सानुस्वारमक्षरमिति सामान्यानुवृत्तावपि हुस्वमिति सर्वत्रापि क्रियते, दीर्घस्य पृथगेव गुरुत्वादिभणनेन सबिन्दुत्वादेरनुपयोगात् । तथा संयोगविसर्गव्यञ्जनपरं वा संयोगश्चद्वयादिव्यञ्जनानां मेलकः, विसर्गश्च प्रतीतो, व्यञ्जनं च ककारादि, संयोगविसर्गव्यञ्जनानि परे यस्मात् तत्तथा । वाशब्दः समुच्चये । तथा गाथादलमंतिम च। मकारोऽलाक्षणिकः । गाथोक्तरूपा तस्या दले पूर्वापररूपे तयोरन्तिमपर्यन्तवर्ति हुस्वमप्यक्षरं, किमित्याह गुर्विति । गुरुसंज्ञं वक्रं रचनायां द्विमानं च मात्रागणनायां परिभाय(व्य)ते । अत्र च प्राकृते णादोतो(ऐदौतो) विसर्गव्यञ्जनपरत्वस्य चानुपयोगे आर्याऽपि गाथासदृशी भवतीति वक्ष्यमाणत्वादायत्यामुपयोगसम्भवेनोपन्यास इति गाथार्थः ॥२॥ साम्प्रतमविशिष्टाक्षरसंज्ञापरिभाषे अधिकृतछन्दत्रययोग्यं अथ(कल्प)पञ्चकस्वरूपं च विभणिषुराह लहु य पउणेक्कमत्तं सेसं कप्पा य पंच चमत्ता । दो अंत मज्झ आई गुरवो चउ लहु य नायव्वा ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86