Book Title: Anusandhan 2009 00 SrNo 47
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मार्च २००९
इतश्च
तीर्थयात्रासु सङ्घार्चा - जैनधर्मप्रभावनाः । कुर्वन् विराजते श्रेष्ठी, हरिराजो निरन्तरम् ||२५||
श्रीवर्द्धमानांह्रिसरोजहंसः श्रीमत्सुधर्मागणभृद्वतंसः । तदन्वये श्रीहरिभद्रसूरिः, प्रभापराभूतसुपर्वसूरिः ||२६|| 'शासनोद्योतकर्त्तार, श्रीउद्योतनसूरयः । श्रीवर्द्धमानसूरीन्द्राः, वर्द्धमानगुणाधिकाः ॥२७॥ यैः श्रीपत्तननगरे, प्राप्तं श्री खरतराख्यवरबिरुदम् । दुर्लभभूपतितस्ते, जेजु-जैंनेश्वराचार्याः ॥२८॥ निध्यङ्गवृत्तिमिषतः, प्रादुर्विहितानि नवनिधानानि । श्रीमदभयदेवार्यैः, जिनचन्द्रपदाम्बुजादित्यैः ॥२९॥ सर्वसूरिशिरोरत्नैर्बभूवे जिनवल्लभैः । युगप्रधानपदवीशैः श्रीजिनदत्तसूरिभिः ॥३०॥ ततो जिनेन्दुसूरीन्द्रा, राजपर्षदि हर्षदाः । श्रीजिनपतिसूरीन्द्राः, तदनु श्रीजिनेश्वराः ॥ ३१॥ श्रीमज्जिनप्रबोधाः, जिनचन्द्रयतीश्वराश्च कुशलकराः । जिनकुशलसूरिगुरवः श्रीमज्जिनपद्मसूरिवराः ||३२|| लब्धाब्धयः श्रीजिनलब्धिसूरयः श्रीजैनचन्द्रादिमसूरिसूरयः । जिनोदयाः सर्वजनोदये क्षमाः, तदन्वये श्रीजिनराजसूरयः ॥ ३३ ॥ तदीय पट्टार्णवपूर्णिमेन्दवो, विराजि तेजोजितभास्करांशवः । विद्यागुणै रञ्जितसर्वसूरयो, जयन्त्वमी श्रीजिनभद्रसूरयः ||३४|| तेषां गुरूणामुपदेशमाप्य सत्पुत्रयुक्तो हरिराजदक्षः । अलीलिखच्चागमलक्षपूर्वं सुवर्णवर्णं वरकल्पशास्त्रम् ॥३५॥ निध्यन्तरिक्षपक्षाब्दे (१५०९), लेखितं कल्पपुस्तकम् । विबुधैर्वाच्यमानं तदाचन्द्रं जयताच्चिरम् ||३६||
"
पं. मुनिसोमगणिना प्रशस्तिकृतोऽस्ति मङ्गलम् ॥
Jain Education International
२५
C/o प्राकृत भारती अकादमी 13- A. मेन मालवीय नगर, जयपुर ३०१०१७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86