Book Title: Anusandhan 2006 02 SrNo 35
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ फेब्रुआरी - 2006 हंसयानस्थिता पुस्तकेनाङ्किता देववाणीरता कूर्मपादोन्नता केलिजङ्घान्विता सिंहमध्याद्भुता वर्यवक्षःस्थला मञ्जुसन्मेखला हस्तनीलोत्पला ध्वस्तकुप्यत्खला सद्गुणैनिर्मला भक्तहन्निश्चला छिनदुष्टच्छला नैव सा निष्फला सर्वतः सद्बला केशतः श्यामला विश्वतः सत्कला केलितः कोमला सद्वचः कोकिला पेशला मांसला वत्सला संरणन्नूपुरा प्रौढपुण्याङ्करा चक्रमाच्चञ्चुरा क्वापि नैवातुरा सर्वदा मेदुरा दीप्तिसन्मुर्मुरा सद्यशःपुरपूरा मग्नभीभूर्भुरा सम्पदा कारिणी पङ्कजागारिणी विश्वसञ्चारिणी बुद्धिविस्तारिणी भक्तनिस्तारिणी दुर्गतेर्दारिणी धर्मधीधारिणी सेवकाधारिणी संसृतेः पारिणी मायिनां मारिणी वैरिणां वारिणी दैत्यसंहारिणी % नमो हारिणी शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा तां तथा ।९९९। . प्रथममृषभदेवनामाऽभिरामाद्भुतश्रीसमेतोऽजितो नो जित: संयतः शम्भवः शं भवः संवराधीशजन्मा सुजन्मा जिनो मेघराजाङ्गजोऽनङ्गजो देवपद्मप्रभुः सप्रभः साधुपार्श्वः सुपार्श्वश्च चन्द्रप्रभो दीप्तिचन्द्रप्रभो मातृरामाभिजातोऽभिजातो वचःशीतलः शीतलो विष्णुपुत्रः सुनेत्रस्तथा वासुपूज्य: सुपूज्यो विपूर्वोमलो निर्मलोऽनन्ततीर्थेश्वरो भासुरो धर्मनाथः सनाथः श्रिया शान्तितीर्थङ्करः कुन्थुनाथः प्रमाथस्ततोऽरः करः सम्पदा मल्लिरापल्लताभल्लिरत्यन्तसत्सुव्रतः सुव्रतः श्रीनमिनिभ्रमिर्नेमिदेवाधिदेवः सुसेवस्तथा पार्श्वतीर्थाधिपः सत्कृपः सद्गुणैर्वर्धमानो जिनो वर्धमानस्तथा गुब्बरग्रामवासी प्रकाशीन्द्रभूतिर्गणेशोऽग्निभूतिस्तथा वायुभूति: पुनर्व्यक्तनामा सुधर्मा गुणैर्मण्डितो मण्डितो मौर्यपुत्रः सुसूत्रस्तथाऽकम्पितः कम्पितो नाऽचलभ्रातृकस्तान्त्रिकस्त्यक्तमार्यः सदार्यश्च मेतार्यसाधुः सदाचारसाधुः प्रभासो निवासो गुणानां च्युतः पञ्चमस्वर्गतो धारिणीकुक्षिपाथोजसंलब्धजन्माऽष्टकन्यापरित्यागकर्ता हिरण्यादिकोटीप्रहर्ता लसत्केवलश्रीसुभर्ता गणाधीशजम्बूयतीन्द्रः प्रपूर्वो भवो भीमसंसारकान्तापारङ्गमी संयमी सूरिमुख्यः सुदक्षश्च शय्यम्भवः श्रीयशोभद्रसूरीन्द्रनामाऽऽर्यसम्भूतसूरिश्च भूरिर्गुणानां कलापैस्तथा भद्रबाहुः सुबाहुः पुन: स्थूलभद्रो मुनीन्द्रश्च कोशासुवेश्यामनोबोधकारी महाब्रह्मचारी लसल्लब्धिधारी नराणां वराणां भवाम्भोधितारी तथाऽऽर्यो महागिर्यभिख्यः सुशिष्यः सुहस्ती प्रशस्ती तथा शान्तिसूरिर्गुणश्रेणिभूरिः पुनः श्रीहरेरग्रगोभद्रसूरिर्गभीरार्थप्रज्ञापनासूत्र सन्दर्भविज्ञान-विद्यावरेण्यः सुपुण्यश्च नीलार्यभट्टारकस्तारकः संसृतेः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98