Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९०
अनुयोगद्वार - चूलिकासूत्रं
इत्यादि, 'सेत' मित्यादि निगमनम् ।
इदानीं कालोपक्रमः, तत्र कालो द्रव्यपर्याय एव, द्रव्यपर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा 'समयावलियमुहुत्ते 'त्यादिरूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह सूत्रकारः -
मू. ( ७८ ) से किं तं कालोवक्कमे ?, २ जं णं नालिआईहिं कालस्सोवक्कमणं कीरइ, से तं कालोवक्कमे ।
'वृ. कालस्योपक्रमः कालोपक्रमः, स क इत्याह- 'जं णं नालिआईहिं कालस्य उवक्कमणं' णमिति वाक्यालङ्कारे, यदिहनालिकादिभिरादिशब्दात् शंकुच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः, तत्र नालिकाताम्रादिमयघटिका तया, शंकुच्छायादिना वा नक्षत्रचारादिना वा एतावत्पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रम:, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्तु नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः, तथाहि - अनेन ग्रहनक्षत्रादिचारेण विनाशितः कालो, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्ति, उक्तं च पूज्यै:"छायाए नालियाए व परिकम्मं से जहत्थविन्नाणं । रिक्वाइयचारेहि य तस्स विनासो विवज्जासो ॥"
इत्यादि, 'से त'मित्यादि, 'से तं'मित्यादि निगमनम् । अथ भावोपक्रमार्थमाहमू. (७९)से किं तु भावोवक्कमे ?, २ दुविहे पत्रत्ते, तंजहा-आगमओ अ नोआगमओ अ, आगमओ जाणए उवउत्ते, नोआगमओ० दुविहे पन्नत्ते, तंजहा- पसत्थे अ अपसत्थे अ, तत्थ अपसत्थे डोडिणिगणिआआमच्चाईणं, पसत्थे गुरुमाईणं, से तं नोआगमओ भावोवकमे, से तं भावोवक्कमे से तं उवक्कमे ।
वृ. भावोपक्रमे द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्च नोआगतश्च तत्रोपक्रमशद्वार्थज्ञः तत्रोपयुक्तश्चागमतो भावोपक्रमः, 'से किं तं नोआगमओ' इत्यादि, अत्रोत्तरम् -'नोआगमो भावोवक्कमे दुविहे' इत्यादि, इहाभिप्रायाख्यो जीवद्रव्यपर्यायो भावशब्देनाभिप्रेतः, उक्तं च"भावभिख्याः पञ्च स्वभावसत्ताऽऽत्मयोन्यभिप्रायाः " ततश्च भावस्य परकीयाभिप्रायस्योपक्रमणं-यथावत् परिज्ञानं भावोपक्रमः, स च द्विविधः - प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्ताभिधित्सया आह- 'से किं तमित्यादि ।
-
अत्र निर्वचनम्-‘अप्पसत्थे डोडिणिगणिआआमच्चाईणं 'ति, इदमिह तात्पर्यम्- ब्राह्मण्या वेश्यया अमात्येन च यत् परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सोऽ प्रशस्तभावोपक्रमः, संसारफलत्वात्, तत्र कथं ब्राह्मण्यादिभिः परभावोपक्रमणमकारीति ?, अत्रोच्यते, एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः तासां च परिणयानानन्तरं तथा करोमि यथैताः सुखिता भवन्तीति विचिन्त्य माता जयेष्ठदुहितरं प्रत्यवोचत्-यदुत त्वयाऽऽवास भवनसमागमे स्वभर्ता कञ्चिदपराधमुद्भाव्य मूर्ध्नि पादग्रहारेण हन्तव्यो, हतश्च यदनुतिष्ठति तन्ममाऽऽख्येयं, कृतं च तया तथैव, सोऽप्यतिस्नेहतरलितमना अयि प्रियतमे ! पीडितस्ते सुकुमालश्चरणो भविष्यतीत्यभिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार, अमुं च व्यतिकरं सा मात्रे निवेदितवती, साऽप्युप
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257