Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - ३५०
४५
४७९
श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश - (श्रि) तप्रचुरनिर्वृतभव्यजन्तुः ॥५॥ ज्ञानदिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ||६|| युग्मम् एतस्मिन् गुणरत्त्ररोहण गिरिर्गाम्भीर्यपाथोनिधिस्तुङ्ग त्वानुकृतक्षमाधर पति: सौम्यत्वतारापति । सम्यगज्ञान विशुद्ध संयमतपः - स्वाचारचर्यानिधि:, शान्तिः, श्रीजयसिंहसूरि रभवन्निसङ्ग - चूडामणिः ||७|| रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ॥८॥ श्री वीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतौयैः । द्रुम इव यः संसक्तिः कस्तद्गुणवर्णने विबुध: ? || ९ || तथाहि
आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्युदुज्जवलवच: पीयूषापानोद्यतै र्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ||१०||
कृत्वा येन तपः सुदष्करतरं विश्वं प्रबोध्य प्रभो स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याऽऽशास्वनिवारतं विचरति श्वेतांशुगौरं यशः ॥११॥
यमुनाप्रवाहविमल श्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥१२॥ विस्पूर्जत्कलिकालदुस्तरतमः सन्तानलुप्तस्थितिः,
सूर्येणेव विवेक भूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुन्नः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ १३॥ तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ १४॥
मुनि दीपरत्नसागरेण संशोधिता संम्पादिता अनुयोगद्वार सूत्रे मल्लधारी हेमचन्द्रचार्य विरचिता टीका परिसमाप्ता
द्वितीय चूलिका "अनुयोगद्वार सूत्रं " - समाप्तम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257