Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७७
मूलं-३५०
अयमपि स्वपक्षसिद्धये युक्तिरूद्भावयति-ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेऽपि तीर्थकरगणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तं,
"सुबहुपि सुयमहीयं किं काही चरकविप्पमुक्कस्स? । अंधस्स जह पलित्ता दोवसयसहस्सकोडीवि ॥१॥ नाणं सविसयनिययं न नाणमित्तेण कञ्जनिप्फत्ती। ___ मग्गन्नू दिटुंतो होइ सचिट्ठोसचिट्ठो य ।।२।। जाणंतोऽविय तरिउं काइयजोगं न जुंजई जो उ।
सो वुज्झइ सोएणं एवं नाणी चरणहीनो॥३॥ जहा खरो चंदनभारवाही'त्यादि, तथा अन्यैरप्युक्तम्
"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम्।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥" इति, एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्,
अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापिन तावद् मुक्त्यवाप्तिः संपद्यते यावदिखलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्तायां सर्वसंवररूपां चारित्रक्रियां न प्राप्नोति, तस्माद् क्रियैव प्रधाना सर्वपुरुषार्थसिद्धिकारणं, प्रयोगश्चात्रयद्यत्समनन्तरभावि तत्तत्कारणं, यथा अन्त्यावस्ताप्राप्तपृथिव्यादिसामग्रयनन्तरभावी तत्कारणोऽङ्करः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः॥
ननु पक्षद्धयेऽपि युक्तिदर्शनात्किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशय ज्ञानक्रियानमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह- .. __ 'सव्वेसिपि'गाहा, न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? -'सर्वेषामपि' स्वतन्त्रसामान्यविशेषवादिनां नामस्थापनादिवादिनां वा नयानां वक्तव्यतां' परस्परविरोधिनी प्रोक्ति 'निशम्य' श्रुत्वा तदिह 'सर्वनयविशुद्धं' सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यं, यत् किमित्याह- 'यच्चरणगुणस्थितः साधुः 'चरणं-चारित्रक्रिया गुणोऽत्र ज्ञावंतयोस्तिष्ठतीति चरणगुणस्थः, ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः, तथाहियत्तावज्ज्ञानवादिना प्रोक्तं-यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविभाभाविन्याः पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाहपाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयनसन्दुक्षणज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमाक्पान्मुक्ति साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात्सर्वत्र ज्ञानक्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभवित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेनिनिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति,
एवं क्रियावादिनाऽपि यद्यत्समन्तरभावि तत्तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्व
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257