Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 238
________________ ४७८ अनुयोगद्वार-चूलिकासूत्रं लक्षणो हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च, तथाहि-स्त्रीभक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात्केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धरसिद्धो हेतुः, यथा च तदनन्तर-भावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञानक्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च "हयं नाणं कियाहीनं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमानो य अंधओ॥१॥ संयोगसिद्धीअ फलं वयंति, न हु एगचक्केण रहो पयाइ। अंधो य पंगू य वने समेच्चा, ते संपउत्ता नयरं पविट्ठा ।।२।। इत्यादि अत्राहनन्वेवं ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात्?, न हि योपुप्रत्येकं नास्ति ततेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत्समुदितेष्वपि सिकताकणेषु तैलं, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च "पत्तेयमभावाओ निव्वाणं समुदियासुवि न जुत्तं। नाणकिरियासु वोत्तुं सिकतासमुदायतेलं व।" उच्यते, स्यादेतद्, यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तुं तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह च "वीसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो। देसोवगारिया जा सा समावायंमि संपुन्ना।" अतः स्थितिमिदं-ज्ञानक्रिये समुदिते एव मुक्तिकारणं, न प्रत्येकमिति तत्त्वं, यथा च पूज्या: "नाणाहीनं सव्वं नाणनओ भणइ किं च किरियाए ?। किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥" तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव, स च ज्ञानक्रियायुक्त एवेत्यतो व्यवस्थितभिदंतत्सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधिरिति ।। तदेवं समर्थितं नयद्वारं, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्र समाप्तम्।। प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यतॊ मयाऽत्र सङ्कलितः। न पुनः स्वमनीषिकया तथापि यत्किञ्चिदिह वितथम्॥१॥ सूत्रमतिलञ्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ।।२।। छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? । सद्बुद्धिविरचितानां विशेषतो मद्विधासुमताम्।।३।। कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनाः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257