Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६५
मूलं-३३५ तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमः संसारभयो-द्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात् जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्या-मिव तदूर्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिबद्धत्वात्, स एवंभूतः श्रमणो भवतीति गाथार्थः ।।
यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-'तो समणो'गाहा, व्याख्या-ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, ‘भावेन च' भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिन्हान्येव श्रमणगुणत्वेन दर्शयति-स्वजने च पुत्रादिके जने च सामान्ये समो-निर्विशेषः मानापमानयोश्च सम इति गाथार्थः ।। __ मू. (३३६) से तं नोआगओ भावसामाइए, से तं भावसामाइए, संतं समाइए, से तं नामनिप्फन्ने।
वृ.इह च ज्ञानक्रियारूपंसामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो नविरुध्यते, सामायिकतद्वतोरभेदोपचारादिति भावः ।। नामनिष्पन्नो निक्षेपः समाप्त: ।। अथ सूत्रालापकनिष्पत्रं निक्षेपं निर्दिदिक्षुराह
मू.(३३६ वर्तते) से किंतं सुत्तालावनिप्फन्ने?, २ इदानि सुत्तालावयनिष्फनं निक्खेवं इच्छावेई, से अ पत्तलक्खणेऽवि न निक्खिप्पड़, कम्हा?, लाघवत्थं, अत्थि इओ तइए अनुओगदारे अनुगमेत्ति, तत्थ निक्खिते इहंनिविखते भवइ, इहवा निक्खित्ते तत्थ निक्खिते भवइ, तम्हा इहं न निक्खिप्पइ तहिं चेव निक्खिपइ, से तं निक्खेवे॥
वृ. अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेपः ?, 'करोमि भदन्त ! सामायिकं' इत्यादिनां सूत्रालापकानां नामस्थापनादिभेदभित्रो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इदानि'मित्यादि, स चेदानी सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह-लाघवार्थं, तदेव लाधवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्रच निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह-यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मानोच्यते?, नैवं, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, नच सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं'तस्मादिह न निक्षिप्यते इत्यादि' ।
पुनरप्याह-यद्येवं किमर्थं सूत्रालापकनिक्षेपस्य अत्रोपन्यासः, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण । निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम्॥ .
अथ तृतीयमनुयोगद्वारं निरूपयितुमाहमू.(३३७) से किं तं अनुगमे? २ दुविहे पन्नत्ते, तंजहा-सुत्तानुगमे अनिन्जुत्तिअनुगमे आसे किंतं निज्जुत्तिअनुगमे?, २ तिविहे पत्रत्ते, तंजहा-निक्खेवनिज्जुत्तिअनुगमे उवग्धा30/30
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257