Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७२
अनुयोगद्वार-चूलिकासूत्रं पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थपदविग्रहादिनियोगः सर्वोऽपि सूत्रस्पशिनियुक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः ततो वस्तुवृत्त्या सूत्रस्पशिकनियुक्त्यन्त विन एव नयाः, आह च भाष्यकार:
"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो।
सुत्तालावगनासो नामाइन्नासविनिओगं ॥१॥ सुत्तफासियनिज्जुत्तिविनिओगो सेसओ पयत्थाइ।
__पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥२॥ अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः
"सुत्तं सुत्तानुगमो सुत्तालावयकओ य निक्खेवो।
सुत्तप्फासियनिज्जुत्ती नया य समगं तु वच्चंति ।" इत्यलं विस्तरेण। 'से त्तं अनुगमे'त्ति अनुगमः समाप्तः ।। अथ नयद्वारमभिधित्सुराह
मू.( ३४३)से किं तं नए?, सत्त मूलनया पन्नत्ता, तंजहा- नेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूए, तत्थमू.( ३४४) नेगेहिं मानेहि मिनइत्ति नेगमस्सं य निरुत्ती।
सेसाणपि नयाणं लक्खनमिनमो सुणह वोच्छं। मू. (३४५) संगहिअर्पिडिअत्थं संगहवयणं समासओ बिति।
वच्च विनिच्छिअत्थं ववहारो सव्वदव्वेसुं। मू. (३४६) पच्चुप्पन्नग्गी उज्जुसुओ नयविही मुनेअव्वो।
इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सदो। मू. (३४७) वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे।
वंजणअत्थतदुभयं एवंभूओ विसेसेइ ।। वृ.अथ कोऽयं पूर्वोक्तशब्दार्थो नयः?, तत्रोत्तरभेदापेक्षया सप्तैव मूलभूता नया मूलनया:, तद्यथा-नैगम इत्यादि, तत्र नैगमं व्याचिख्यासुराह-नेगेहिमित्यादि गाथा, व्याख्या-न एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः-महासत्तासामान्यविशेषादिज्ञानैमिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः इतीयं नैगमस्य निरुक्तिः-व्युत्पत्तिः, अथवा निगामा-लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽमिति गाथार्थः ।।
यथाप्रतिज्ञातमेवाह-'संगहिअ गाहा, व्याख्या-सम्यग् गृहीत-उपात्तः सगृहीतः पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत्सङ्ग्रहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' संक्षेपतो ब्रुवते तीर्थकरणगणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनंसगृहीतसामान्यार्थमेव भवति, अत एव सगृह्मति-सामान्यरूपतया सर्व वस्तु क्रोडीकरोतीति सङ्ग्रहोऽमुच्यते, युक्तिश्चात्र लेशतः प्राग्दशितैव वच्चई'त्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257