Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - २९९
४२३
दो दो नव सत्तेव य अंकद्वाणा पराहुत्ता ।।
तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थ प्रकारान्तरेणाह-' अहवणं छन्नउईच्छेयणगयाई रासि 'त्ति छेदनकं राशेरद्धकरणं ततः पत्रवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः, स चायमेवैकोनत्रिंशदडूकस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः, अयं हि पुनः पुनश्छिद्यमानोऽक्रियमाणः पन्नवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते, कथं पुनः पन्नवंतिच्छेदनानि भाव्यन्ते ?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि - चतुर्णामद्धे द्वौ तयोरप्यर्द्ध एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयं, द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ चतुर्थे षाडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुः षष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि, तदेवं जघन्यपदमुक्तम्, अथोत्कृष्टपदमभिधित्सुराह
'उक्कोसपए असंखेज्ज' त्ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्ख्येयानि कालतो ऽड्रख्येयोत्सर्पिणीसमयराशितुल्यानि, क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रेक्षिप्ते तैर्मनुष्यशरीरैरेका नभःप्रदेशश्रेणिरपहियते, कियता कालेनेत्याह- असख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह
Jain Education International
-
‘अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्न' न्ति श्रेणेरङ्गुल-प्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति इदमुक्तं भवति श्रेणेर्मध्याद् यथोक्त - प्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसपिणीभिः सर्वापि श्रेणिरपहियते यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भसंमूर्च्छजमनुष्याणामेतावतामेव भावादिति तदेवं मनुष्याणां बद्धान्यौदारिकशरीरायुक्तानि, मुक्तानि त्वोधवद्भाव्यानि ।
अथ वैक्रियाण्याह- 'केवइया वेडव्विअसरीरा' इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु तत्रापि वैक्रियलब्धिमत्सु तत्रापि पृच्छासमये कियस्त्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपहियमाणानि असङ्ख्येयेन कालेनापहूियन्ते, मुक्तान्यो धवद्वाच्यानि ।
आहारकाणि तु बद्धानि मुक्तानि च यथौधिकानि तथैव, तैजसकार्मणानि तु यथैषा मेवौदारकाणि ।
मू. ( २९९ वर्तते ) वाणमंतराणं ओरालिअसरीरा जहा नेरइआणं, वाणमंतराणं भंते ! केवइया वेउव्विअसरीरा पं० ?, गो० ! दुविहा पन्नत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेला ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहि अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखिज्जइभागो, तासि णं सेढीणं विक्खंभसूई
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257