Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४४२
अनुयोगद्वार-चूलिकासूत्रं कुण्डे बदराणीति, न च प्रदेशदेशिनौ भेदेनोपलभ्येते, अथ अभेदेपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात संशयलक्षणो दोषः स्यात्, अथ कर्मधारयेण भणसि, ततो विशेषेण भण 'धम्मे अ से पएसे य से'त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारणः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । ___ आह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायाद्रव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते? उत तदेकदेशवृत्तिः सन्? यथा जीवास्तिकाायैकदेशवृत्तिर्जीवप्रदेश इत्याशंक्याह'से पएसे धम्मे'त्ति सच प्रदेशः सकलधर्मास्तिकायदव्यतिरिक्तो न पुनस्तदेशदेकवृत्तिरित्यर्थः, शेषभावना पूर्ववत. 'से पएसे नोजीवे से पएसे नोखंधे' इत्यत्रापि पूर्ववदेवार्थकथनम्।। __ एवं वदन्तं समभिरूढंसाम्प्रतमेवभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत्तत्सर्वं समस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णम्-आत्मस्वरूपेणाविकलं निरवशेषतदेवैकत्वानिरवयवमेकग्रहणगृहीतम् एकाभिधानाभिधेयं न नानाभिधानभिधेयं, तानि ह्येकस्मिार्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद्धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देशप्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपयोगात्, तथाहि-प्रदेशप्रदेशिनोर्भेदो वा स्यादभेदो वा?, यदि प्रथमः पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गो, न च तथोपलब्धिरस्ति, अथाभेदस्तहि धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोयुगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयात, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति। तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्परंनिरपेक्षया दुर्नयाः, सौगतादिसमयवत्, परस्परसापेक्षस्तु सुनयाः, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्णं भवति, नैकैकावस्थायाम्, उक्तं च स्तुतिकारेण
"उदधाविव, सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः ।
न च तासु भवान् प्रदृश्यते, पविभक्तासु सरित्स्विवोदधिः ॥" एते च नया ज्ञानरूपास्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद्बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात्पृथगुक्ताः। तदेतत्प्रदेशदृष्टान्तेनेति निगमनम्। प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति-तदेतन्नप्रमाणमिति । अनेन च दृष्टान्तत्रयेण दिग्मात्रदर्शनमेव कृतं, यावता यत्किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचार: प्रवर्तते इत्यलं बहुजल्पितेनेति। इत: क्रमप्राप्तं सङ्खयाप्रमाणं विवरीषुराह
मू.(३११) से किं तं संखप्पमाणे?, २ अट्ठविहे पन्नत्ते, तंजहा-नामसंखा ठवणसंखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाननासंखा गणनासंखा भावसंखा। से किं तं नामसंखा?, २ जस्स णं जीवस्स वा जाव से तं नामसंखा । से किं तंठवणसंखा?, २ जणं कट्ठकम्मे वा पोत्थकम्मे वा जाव से तंठवणसंखा । नामठवणाणं को पइविसेसो?, नाम (पाएणं) आवकहियं ठंवणा इत्तरिया वा होज्जा आवकहिया वा होज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257