Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 201
________________ मूल-३१० वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविशतिविधः प्रदेश: प्राप्नोति, तस्मान्मा भण-पञ्चविधः प्रदेश: किन्त्वेवं भण-भाज्यः प्रदेशः, स्याद्धर्मस्येत्यादि, इदमुक्त भवति-भाज्या-विकल्पनीयो विभजनीयः प्रदेशः, कियद्भिविभागः?-स्याद्धर्मप्रदेश इत्यादि पञ्चभिः, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात्, प्रस्तुतनयमतेनासत्त्वादिति।। एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद्भसि-भाज्यः प्रदेशः, तन्न भवति, कुतो?, यतो यदि भाज्य: प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्याद्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेशः, स्याद्, इत्थमपि भजनाया अनिवारितत्वाद्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यं, तदेवं नैयत्वाभावात्तवाप्यनवस्था प्रसज्येतेति, तन्मैवं भण-भाज्यः प्रदेशः, अपि तु इत्थं भण-'धम्मे पएसे (से पएसे धम्मे)'इत्यादि, इदमुक्तं भवति-धर्मः प्रदेश इति-धर्मात्मकः, प्रदेश इत्यर्थः, अत्राह-नन्वयं प्रदेशाः सकलधर्मास्तिकायायदव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशमाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सन् तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह-'से पएसे धम्मेऽति'त्ति स प्रदेशो धर्म:-सकलधर्मास्तिकायाद्रव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स निःशेषजीवास्तिमायैदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सनत्त्प्रदेशो धर्मात्मक उच्यत इति भावः। ___ अधर्माकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीय। जीवास्तिकाये तु'जीव पएसे से नोजीवे'त्ति जीवः प्रदेश इति-जीवास्तिकायात्मक: प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्येह देशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः, एवं स्कन्धात्मक: प्रदेशो नोस्कन्धः, स्कन्धदव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः । एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः, स प्राह-यद्भणसि-धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्न भवति-न युज्यते, कस्मादित्याह-इह खलु द्वौ समासौ भवतः, तद्यथा-तत्पुरुषः कर्मधारयश्च, इदमुक्तं भवति-'धम्मे पएसे से पएसे धम्मे'इत्युक्ते समासद्वयारम्भकवाक्यद्वयमत्र संभाव्यते, तथाहि-यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यं, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम्?, उच्यते, समासारम्भकवाक्ययोः समासोपचाराद्, अथवा अलुक्समासविवक्षया समासावाप्येतौ भवतो, यथा कण्ठेकाल इत्यादीत्यदोषः, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याहतन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण कर्मधारयेण वा?, यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो धर्मे प्रदेश इति भेदापत्तिः, यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257