Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 207
________________ ४४७ मूलं-३१७ तुजघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तान्तकस्य क्वाप्यसम्भवादिति सर्वमपीदमष्टविधं, तदेवं संक्षेपत: संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः तत्स्वरूपनिरूपणार्थमाह'जहन्नयं संखेञ्जयं केवाइय'मित्यादि, अत्र जघन्यं संख्येयकं द्वौ, ततः परं त्रिचतुरादिकं सर्वमप्यजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति । मू.(३१७ वर्तते )उक्कोसयं संखेज्जयं केवइअंहोइ?, उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिआ एगंजोयणसयसहस्सं आयामविक्खंभेणं तिनि जोयणसयसहस्साई सोलस सहस्साइं दोनि अ सत्तावीसे जोयणसए तिनि अ कोसे अट्ठावीसं च धनुसयं तेरस रा अंगुलाई अद्धं अंगुलं च किंचिविसेसाहिअंपरिक्खेवेणं त्रतं, से णं यल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थएहिं दीवसमुद्दाणं उद्धारो घेप्पइ, एगो दीवे एगो समुद्दे एवं पक्खिप्पमानेणं २ जावइआ दीवसमुद्दा तेहिं सिद्धत्थएहि अप्फुन्ना एस णं एवइए खेते पल्ले(आइट्ठा) पढमा सलागा, ___ एवइआणं सलागाणं असंलप्पा लोगा भरिआ तहावि उक्कोसेयं संखेज्जयं न पावइ, जहा को दिढितो?, से जहानामए मंचे सिआआमलगाणं भरिए तत्थ एगे आमलए पक्खित्ते सोऽवि माते अत्रेऽवि पक्खित्ते सेऽवि माते अनेऽवि पक्खित्ते सेऽवि माते एवं पक्खिप्पमाणेणं २ होही सेऽवि आमलए जंसि पक्खित्ते से मंचए भरिज्जिहिइ जे तत्थ आमलए न माहिइ। वृ. तत्र कियत्पुनरुत्कृष्टं सङ्खयेयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादिस्थमाह-उत्कृष्टस्य सङ्खयेयकस्य प्ररूपणां करिष्यामि, तदेवाह-तद्यथा नाम कश्चित्पल्मः स्यात्, कियन्मान इत्याह-आयामाविष्कम्भाभ्यां योजनशतसहस्रं, परिधिना तु "परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसऽहिया। कोसतिय अट्ठवीसं, धनुसय तेरंगुलऽद्धहियं ॥" इति गाथाप्रतिपादितमानो, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाडो दृष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं मित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः, स चैवंप्रमाणः पल्यो जम्बूद्वीपवेदिकात उपरि सप्रशिख: सिद्धार्थानां-सर्षपानां भ्रियते, 'तओ नं तेहि मित्यादि, इदमुक्तं भवति-ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह_ 'एस णं एवइए खेत्ते पल्ले'त्ति, यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'अप्फुण्ण'त्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः, सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, ततः किमित्याह-'पढमा सलाग'त्ति ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाणं सलागाणं असलप्पा लोगा भरिय'त्ति लोक्यन्ते-केवलिना दृश्यन्त इति लोकाव्याख्यानादिवक्ष्यमाणाः शलाकापल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्षकोटि-प्रकारेण संलपितुमशक्या असंलपप्ययाः, अतिबहवा इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता:पूरितास्तथाप्युत्कृष्टु सङ्खयेयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढया भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्खयेयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257