________________
४४७
मूलं-३१७ तुजघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तान्तकस्य क्वाप्यसम्भवादिति सर्वमपीदमष्टविधं, तदेवं संक्षेपत: संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः तत्स्वरूपनिरूपणार्थमाह'जहन्नयं संखेञ्जयं केवाइय'मित्यादि, अत्र जघन्यं संख्येयकं द्वौ, ततः परं त्रिचतुरादिकं सर्वमप्यजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति ।
मू.(३१७ वर्तते )उक्कोसयं संखेज्जयं केवइअंहोइ?, उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिआ एगंजोयणसयसहस्सं आयामविक्खंभेणं तिनि जोयणसयसहस्साई सोलस सहस्साइं दोनि अ सत्तावीसे जोयणसए तिनि अ कोसे अट्ठावीसं च धनुसयं तेरस रा अंगुलाई अद्धं अंगुलं च किंचिविसेसाहिअंपरिक्खेवेणं त्रतं, से णं यल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थएहिं दीवसमुद्दाणं उद्धारो घेप्पइ, एगो दीवे एगो समुद्दे एवं पक्खिप्पमानेणं २ जावइआ दीवसमुद्दा तेहिं सिद्धत्थएहि अप्फुन्ना एस णं एवइए खेते पल्ले(आइट्ठा) पढमा सलागा, ___ एवइआणं सलागाणं असंलप्पा लोगा भरिआ तहावि उक्कोसेयं संखेज्जयं न पावइ, जहा को दिढितो?, से जहानामए मंचे सिआआमलगाणं भरिए तत्थ एगे आमलए पक्खित्ते सोऽवि माते अत्रेऽवि पक्खित्ते सेऽवि माते अनेऽवि पक्खित्ते सेऽवि माते एवं पक्खिप्पमाणेणं २ होही सेऽवि आमलए जंसि पक्खित्ते से मंचए भरिज्जिहिइ जे तत्थ आमलए न माहिइ।
वृ. तत्र कियत्पुनरुत्कृष्टं सङ्खयेयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादिस्थमाह-उत्कृष्टस्य सङ्खयेयकस्य प्ररूपणां करिष्यामि, तदेवाह-तद्यथा नाम कश्चित्पल्मः स्यात्, कियन्मान इत्याह-आयामाविष्कम्भाभ्यां योजनशतसहस्रं, परिधिना तु
"परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसऽहिया।
कोसतिय अट्ठवीसं, धनुसय तेरंगुलऽद्धहियं ॥" इति गाथाप्रतिपादितमानो, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाडो दृष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं मित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः, स चैवंप्रमाणः पल्यो जम्बूद्वीपवेदिकात उपरि सप्रशिख: सिद्धार्थानां-सर्षपानां भ्रियते, 'तओ नं तेहि मित्यादि, इदमुक्तं भवति-ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह_ 'एस णं एवइए खेत्ते पल्ले'त्ति, यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'अप्फुण्ण'त्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः, सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, ततः किमित्याह-'पढमा सलाग'त्ति ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाणं सलागाणं असलप्पा लोगा भरिय'त्ति लोक्यन्ते-केवलिना दृश्यन्त इति लोकाव्याख्यानादिवक्ष्यमाणाः शलाकापल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्षकोटि-प्रकारेण संलपितुमशक्या असंलपप्ययाः, अतिबहवा इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता:पूरितास्तथाप्युत्कृष्टु सङ्खयेयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढया भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्खयेयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org