________________
४४६
-
-
अनुयोगद्वार-चूलिकासूत्रं स्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात्, एवमन्यत्राषि भावना कार्या, नवरं सङ्घयेयान्यकाराद्यक्षराणि, द्वाद्यक्षरसंयोगरूपाः सङ्ख्येयाः सङ्घाताः सुप्तिङन्तानि समयप्रसिद्धानि वा संख्येयानि पदानि, गाथादिचतुर्थाशरूपाः सङ्ख्येयाः पादाः सङ्घयेया गाथाः, संख्येयाश्च श्लोकाः प्रतीताः, एवं छन्दोविशषरूपाः संख्येया वेष्टकाः, निक्षेपनियुक्त्यु-पोद्घातनियुक्तिसूत्रस्पर्शक नियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि सत्पद-प्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्घयेया उद्देशाः, सङ्ख्येयान्य-ध्ययनानि, सङ्घयेयाः श्रुतस्कन्धाः, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या, एवं दृष्टिवादेऽपि भावना कार्या, नवरंप्राभृतादय: पूर्वान्तर्गताः श्रुताधिकारविशेषाः । 'सेत'मित्यादि निगमन्वयम्।।
'से किं तं जाणणासंखा' इत्यादि, 'जाणणा' ज्ञानं संख्यायते-निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम्?, उच्यते, यो देवदत्तादिर्यच्छब्दादिकं जानाति स तञ्जानाति, तच्च जाननसावभेदोपचाद् ज्ञानसङ्खयेयत्युपस्कारः, शेषं पाठसिद्धम्।
मू.(३१७ वर्तते) से किं तं गणनासंखा?, २ एको गणनं न उवेइ, दुप्पभिइ संखा, तंजहा-संखेज्जए असंखेज्जए अनंतए।
से किं तं संखेज्जए?, २ तिविहे पन्नत्ते, तंजहा-जहन्नए उक्कोसेए अजहन्नमनुक्कोसए। से किंतं असंखेज्जए?, २ तिविहे पन्नत्ते, तंजहा-परित्तासंखेज्जए जुत्तासंखेज्जए असंखेज्जासंखेज्जए। सेकिंतं परित्तासंखेज्जए?, २तिविहे पन्त्रत्ते, तंजहा-जहन्नए उक्कोसए अजहन्नमनुकोसए । सेकिंतंजुत्तासंखेज्जइ), रतिविहे पन्नते, तंजहा-जहन्नए उक्कोसए अजहन्नमनकोसए। से किं तं असंखेज्जासंखेज्जए?, २ तिविहे पन्नते-तंजहा-जहन्नए उक्कोसए अजहन्नमनुकोसए।
से किं तं अनंतए?, २तिविहे पन्नत्ते, तंजहा-परित्तानंतए जुत्तानंतए अनंतानंतए। से किं तं परितानंतए?, २ ति० प०, तं० - जहन्नए उक्कोसए अजहन्नमनुक्कोसए। से किंतं जुत्तानंतए?, २तिविहे पन्नते, तंजहा-जहन्नए उक्कोसए अजन्नम०1
से किं तं अनंतानंतए ?, २ दुविहे पन्नत्ते, तंजहा-जहन्नए अजहन्नमनुक्कोसए । जहन्नयं संखेज्जयं केवइ होइ?, दोरूवयं, तेनं परं अजहनमनुकोसयाई ठाणाई जाव उक्कोसेयं संखेज्जयं न पावइ।
वृ. एतावन्त एते इति संख्यानं गणनसंख्या, तत्र 'एगो गणनं न उवेइ' एकस्तावद्गणनंसङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः पतीतिरुत्पद्यते नैकसङ्ख्याविषयत्वेन अथवा आदानसमर्पणादिव्यवहारकाले एक वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद्विप्रभृतिरेव गणनसङ्ख्या, साच सङ्ख्येयकादिभेदभिन्ना, तद्यथा-सङ्घयेयकमसङ्घयेयकमनन्तकं, तत्र संख्येयकं जघन्यादिभेदात् त्रिविधम्, असंख्येयकं तं परीतासंख्येयकं युक्तासंख्येयकं, असङ्घयेयासङ्ख्येयकं, पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम्, अनन्तकमपिपरीतानन्तकं युक्तानन्तकं अनन्तानन्तकम्, अत्राद्यानन्तभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रैविध्यम्, अनन्तानन्तकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org