Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२८
अनुयोगद्वार - चूलिकासूत्रं
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥"
इत्यादि, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थगहनातपङ्गात्, अन्यत्र यत्नेनोक्तत्वाच्चेति । आह- प्रत्यक्षविपयत्वादेवात्रानुमानप्रवृत्तियुक्ता, नैवं पुरुषपिण्डमात्रप्रत्यक्षायामपि मत्पुत्रो न वेति सन्देहाद्युक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन ।
'से किं तं सेसव' मित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरर्थादन्यो हेषितादिरर्थः शेष इहोच्यते स गमकत्वेन यस्मास्ति तच्छेषवदनुमानं तच्च पञ्चविधं तद्यथा - कार्येणेत्यादि,
,
तत्र कार्येण कारणानुमानं यथा-हयम्-अश्वं हेषितेन अनुमिनुते इत्यध्याहारः हेषितस्य तत्कार्य- . त्वात्, तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवदनुमामुच्यत इति भावः, क्वचित् प्रथमतः शङ्खं शब्देनेत्यादि दृश्यते, तत्रोक्तानुसरातः, सर्वोदाहरणेषु भावना कार्या ।
F
'से किं तं कारणेण' - मित्यादि, इह कारणेन कार्यमनुमीयते यथा विशिष्टमेघोन्नतिदर्शनामत् कश्चित् वृष्ट्यनुमानं करोति,
यदाह
" रोलम्बगवलव्यालतमालमलिनत्विषः ।
वृष्टि व्यभिचरन्तीह, नैवंप्रायाः पयोमुचः ||" इति,
एवं चन्द्रोदयाञ्जलधे वृद्धिरनुमीयते कुमुदविकाशश्च मित्रो दयाञ्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीबलमनः प्रमोदेश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य नाकारणं, तत्र कार्यकारणभाव एक केषाञ्चिद्विप्रतिपत्ति पश्यंस्तमेव तावन्नियतं दशर्यन्नाहतन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणं, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽ ऽप्युपलम्भाद्, अत्राह
ननु यदा कश्चिनिपुणः पटभावेन संयुक्तानि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवं, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुकुरुते तदेव तस्य कारणत्वेनोपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराभावेन भक्त आरोगितासुखस्य ज्वरः कारणमिति शक्यते वक्तुं यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवं, तन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावी भवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्, एवं वीरणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चित्तं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । 'से किं तं गुणेण'- मित्यादि, निकष: - कषणपट्टगता कषितसुवर्णरेखा तेन सुवर्णमनुमीयते यथा पञ्चदशादिर्ण - कोपेतमिदं सुवर्णं, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धो भयसम्मतसुवर्णवत्, एवं शतपत्रि- कादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वो लब्धवस्तुवत्, एवं लवणमदिरावस्त्रादयो ऽनेक-भेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वादस्पर्शादिगणोपलब्धेः, प्रतिनियतस्वरूपाः साधयितव्याः ।
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257