Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 171
________________ मूलं-२९६ मू. ( २९६) एएसि पल्लाणं कोडाकोडी भवेज्ज दसगुणिया। तं सुहमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ मू. (२९७) एएहिं सुहुमेहिं खेत्तप० सागरोवमेहि किं पओअणं?, एएहिं सुहुमपलि० साग० दिद्विवाए दव्वा मविज्जति। व. उक्तं सप्रयोजनमद्धापल्योपमं, क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयं, नवरं व्यावहारिकपल्योपमे 'जेणं तस्स पल्लस्से'त्यादि, तस्य पल्यस्यान्तर्गता नभ:प्रदेशास्तैर्वालाग्रैर्ये 'अप्फुन्न'त्ति आस्पृष्टा-व्याप्ता आक्रान्ता इतियावत्, तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे । असङ्ख्येया उत्सर्पिण्यवसर्पिण्योऽविक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यं, सुक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मालाग्रैः स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, अतस्तव्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम्। आह-यति स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते तहि वालाग्रैः किं प्रयोजनं?, यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रत: सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टरेव नभः प्रदेशर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति।। __ 'तत्थणं चोयए पन्नवग'मित्यादि, तत्र नभःप्रदेशानां स्पृष्टास्पृष्टत्वप्ररूपणे सति जातसन्देह: प्रेरकः प्रज्ञापकम्-आचार्यमेवमवादीत्-भदन्त! किमस्त्येतद् यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ?, पूर्वोक्तप्रकारेण वालाग्राणां तत्र निविडत-- याऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादिमिदं यत्तत्रास्पष्टा नभःप्रदेशाः सन्तीति प्रच्छकाभिप्रायः, तत्रोत्तरं-हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपत्तुमशक्तः पुविनेयः पृच्छति-यथा कोऽत्र दृष्टान्तः?, प्रज्ञापक आह 'से जहानामए'इत्यादि, अयमत्र भावार्थ:-कूष्माण्डानां-पुस्फलानां भृते कोष्ठके स्थूलदृष्टीनां , ताव भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परंतानि छिद्राणि संभाव्यन्ते येष्यद्यापि मातुलिङ्गानि-बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु विल्वानि प्रतिप्तानि, तान्यपि मान्तीत्येवं तावद् यावत्सर्षपच्छिद्रेषु गुङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभःप्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशाः, दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कोलकानां बहूनां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भावनीयम्।। मू.(२९८) कइविहा णं भंते ! दव्वा पन्नत्ता?, गो० ! दुविहा पन्नत्ता, तंजहा-जीवदव्वा य अजीवदव्वा या अजीवदव्वाणं भंते ! कइविहा पन्नत्ता?, गो०! दुविहा प०, तंजहारूवीअजीवदव्वा य अरू वीअजीवदव्वा य। अरूवीअजीवदव्या णं भंते ! कइविहा पन्नत्ता?, गो०दविहा पत्रत्ता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स देसा धम्मित्थिकायस्स पएसा अधम्मत्थिकायस्स देसा अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासस्थिकायस्स देसा • आगास० पएसा, अद्धासमए । रूवीअजीवदव्वा णं भंते ! कइविहा प०?, गो० ! चउबिहा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257