________________
मूलं-२९६ मू. ( २९६) एएसि पल्लाणं कोडाकोडी भवेज्ज दसगुणिया।
तं सुहमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ मू. (२९७) एएहिं सुहुमेहिं खेत्तप० सागरोवमेहि किं पओअणं?, एएहिं सुहुमपलि० साग० दिद्विवाए दव्वा मविज्जति।
व. उक्तं सप्रयोजनमद्धापल्योपमं, क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयं, नवरं व्यावहारिकपल्योपमे 'जेणं तस्स पल्लस्से'त्यादि, तस्य पल्यस्यान्तर्गता नभ:प्रदेशास्तैर्वालाग्रैर्ये 'अप्फुन्न'त्ति आस्पृष्टा-व्याप्ता आक्रान्ता इतियावत्, तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे । असङ्ख्येया उत्सर्पिण्यवसर्पिण्योऽविक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यं, सुक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मालाग्रैः स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, अतस्तव्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम्। आह-यति स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते तहि वालाग्रैः किं प्रयोजनं?, यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रत: सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टरेव नभः प्रदेशर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति।। __ 'तत्थणं चोयए पन्नवग'मित्यादि, तत्र नभःप्रदेशानां स्पृष्टास्पृष्टत्वप्ररूपणे सति जातसन्देह: प्रेरकः प्रज्ञापकम्-आचार्यमेवमवादीत्-भदन्त! किमस्त्येतद् यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ?, पूर्वोक्तप्रकारेण वालाग्राणां तत्र निविडत-- याऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादिमिदं यत्तत्रास्पष्टा नभःप्रदेशाः सन्तीति प्रच्छकाभिप्रायः, तत्रोत्तरं-हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपत्तुमशक्तः पुविनेयः पृच्छति-यथा कोऽत्र दृष्टान्तः?, प्रज्ञापक आह
'से जहानामए'इत्यादि, अयमत्र भावार्थ:-कूष्माण्डानां-पुस्फलानां भृते कोष्ठके स्थूलदृष्टीनां , ताव भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परंतानि छिद्राणि संभाव्यन्ते
येष्यद्यापि मातुलिङ्गानि-बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु विल्वानि प्रतिप्तानि, तान्यपि मान्तीत्येवं तावद् यावत्सर्षपच्छिद्रेषु गुङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभःप्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशाः, दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कोलकानां बहूनां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भावनीयम्।।
मू.(२९८) कइविहा णं भंते ! दव्वा पन्नत्ता?, गो० ! दुविहा पन्नत्ता, तंजहा-जीवदव्वा य अजीवदव्वा या अजीवदव्वाणं भंते ! कइविहा पन्नत्ता?, गो०! दुविहा प०, तंजहारूवीअजीवदव्वा य अरू वीअजीवदव्वा य। अरूवीअजीवदव्या णं भंते ! कइविहा पन्नत्ता?, गो०दविहा पत्रत्ता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स देसा धम्मित्थिकायस्स पएसा अधम्मत्थिकायस्स देसा अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासस्थिकायस्स देसा • आगास० पएसा, अद्धासमए । रूवीअजीवदव्वा णं भंते ! कइविहा प०?, गो० ! चउबिहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org