Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - २७५
विसंघाइज्जइ, तम्हा से समए न भवइ ।
एत्तोऽवि अनं सुहुमतराए समए पन्नत्ते समणाउसो !!
वृ. अथ कोऽयं समय इति पृष्टे सत्याह- समयस्य प्ररूपणां विस्तरक्त व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपंथमवतरतीति भावः, तदेवाह - 'से जहानामए' इत्यादि, सकश्चित् यथानामको यत्प्रकारनामा देवदत्तादिनामेत्यर्थ:, 'तुण्णाहगारए' सूचिक इत्यर्थः, 'स्यात्' भवेत्, यः किमित्याह - तरुणादिवेशेषणाविशिष्टः पटसाटिकां पट्टाटिकां वा गृहीत्वा 'सयराहं' झटिति कृत्वा हस्तमात्रमपसारयेत्-पाटयेदिति सण्टङ्कः, अथवा 'स' इति पूर्ववत् 'यथे'त्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च सकश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुमादिविशेषणः 'स्यात् ' कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत् - पाटयेदिति तथैव सम्बन्धः, तत्र तरुणःप्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानक्या एव भवति, किं विशेषणेन ?, नैवम्,
आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विश्ष्टामर्थप्रतिपादनार्थश्चायमारम्भः सोऽदुष्टो - निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणं, 'जुवाणो 'त्ति युवा-यौवनस्थः प्राप्तवया एष इत्येवम् अनति-व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम्, अल्पशब्दोऽग्रहस्तोहस्ताग्रं यस्य स तथा, दृढं पाणिपादं यस्य पार्श्वो पृष्ठ्यन्तरे च ऊरू च परिणते - परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलयमलजुयलपरिघणिभबाहू' तलौतालवृक्षौ तयोर्यमलं- सम श्रेणीकं यद् युगलं-द्वयं परिघश्च- अर्गला तन्निभौ - तत्सदृशौ दीर्घ सरलपीनत्वादिना बाहू यस्य स तथा आगन्तुकोपकरणजं सामर्थ्य माह'चर्मेष्ष्टकाद्रुघणमुष्टिक समाहतनिचितगात्रकाय:' चर्मेष्टकया ग्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यास प्रवृत्तस्य निचितानि - निबिडीकृतानि गात्राणि - स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो - देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव, 'औरस्यबलसमन्वागत' आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्तां दर्शयति-
-
Jain Education International
३९९
'लङ्घनप्लवनव्यायामसमर्थः ' जवनशब्दः शीघ्रवचनः, छेक:- प्रयोगज्ञः दक्षः - शीघ्रकारी प्राप्तार्थ: - अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये, कुशलः - आलोचितकारी मेघावीसकृच्छ्रुतदृष्टकर्मज्ञः निपुण - उपायारम्भकः निपुणशिल्पोपगतः - सूक्ष्मशिल्पसमन्वितः एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानं, स इत्थम्भूत एकां महर्ती पटसाटिकां पट्टसाटिकां वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानं, गृहीत्वा 'सयराह' मिति सकृत् झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत्-पाटयेदित्यर्थः, तत्रैवं स्थिते प्रेरक :- शिष्यः प्रज्ञापयतीति प्रज्ञापको - गुरुस्तमेवमवादीत्, किम ? - येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति ?, प्रज्ञापक आहनायमर्थः समर्थः नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसाटिकां
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257