Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 157
________________ मूलं-२७० एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते, तथाहि-रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वयं धोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्ण क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्जवसंख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा वसनाडिकाया एवोत्तरपार्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाध; समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्यार्द्ध देशोनरज्जुचतुष्टविस्तीर्ण सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोऽपि अधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते, इदानीमुपरितलोकार्द्ध संवर्त्यते-तत्रापि रज्जुविस्तरायास्त्रसानाडिकाया दक्षिणदिग्वतिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रहलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छूिते बुद्धया गृहीत्वा तस्या एवोत्तरपार्वे पूर्वोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते, ___ एवं च कृते उपरितनं लोकस्यार्द्धद्वाभ्यामगुलसहस्त्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम, इह चतुर्णा खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाशुलसहस्रभागः, एकदिग्वतित्वादेव, अपराभ्यामपिअद्वाभ्यामित्थमेवेत्यतस्तद्वयधिकत्वमुक्तं देशोनसप्तरज्जूच्छ्रितं, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्वे संघात्यते, एवं च योजिते आघस्त्यखण्डस्योच्छ्ये यदितरोच्छ्रयादधिकं तद्खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायतं संघात्यते, एवं च सातिरेकाः पञ्च रञ्जवः क्वचिद्वाहल्यं सिद्धयति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्यादेशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानवबाहल्यादर्द्ध गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत्सर्वमप्येतच्चतुरस्रीकृतनभ:खण्डं कियत्यपि प्रदेशे रज्ज्वंख्येयभागाधिकाः षट्ञ्जवो भवन्ति, व्यावहारतस्तु सर्वं सप्तरज्जबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति देशतोऽपिच दृष्टं बाहल्यादिधर्म परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, __ अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता दृष्टव्या, आयमविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणभिदं जातं, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जप्रमाणता दृश्यते, तदेवं व्यवहारनयमतेनायाभविष्कम्भबाहल्यैः प्रत्येकै सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं भावनीयं, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेष्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा साग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः, तदियं सप्तरज्जवायामत्वात् प्रमाणाङ्गलतोऽसङ्खयेययोजनकोटिकोट्ययता एकप्रादेशिकी श्रेणिः, साचतयैव गुणिता प्रतरः, सोऽपि यथोक्त श्रेण्या गुणितो लोकः, अयमपि सङ्घयेयेन राशिना गुणिता: सङ्खयेयेया लोकाः असङ्ख्येयेन तु राशिना समाहतोऽसङ्खयेयालोका अनन्तैश्च लोकैरलोकः, नन्वङ्गलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तु न किञ्चित्प्रमीयते इत् कथं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257