Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 124
________________ ३६४ अनुयोगद्वार-चूलिकासूत्रं इत्यादिष्वयं सर्वरसानामादामेव पठ्यते, अत्र तु त्यागतपोगुणो वीररसे वर्तते, त्यागतपसी च 'त्यागो गुणो गुणशताधिको मतो मे' 'परं लोकातिगंधाम, तपः श्रुतमिति द्वय' मित्यादिवचनात् समस्तगुणप्रधान इत्यनया विवक्षया वीररसस्यादावुपन्यास इति २, श्रुतं शिल्पं त्यागतपःशौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते, तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः ३, रोदयति-अतिदारुणतया अश्रूणि मोचयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, तद्दर्शनाद्युद्भवो विकृताध्यवसायोरूपो रसोऽपि रौद्रः ४, व्रीडयति-लञ्जामुत्पादयतीति लञ्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादिस्वरूपो वीडनकः, अस्य स्थाने भयजनकसंग्रामादिवस्तुदर्शननादिप्रभवो भयानको रसः पठ्यते अन्यत्र, सचेह रौद्ररसान्तर्भावविवक्षणात् पृथग् नोक्तः ५,शुक्रशोणितोच्चारप्रश्रवणाद्यनिष्ठमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसोऽपि बीभत्सः ६, विकृतासम्बद्धपरवचनवेषालङ्कारादिहास्याहपदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको रसोऽपि हास्यः ७, कृत्सितं रौत्यनेनेति निरुक्तवशात् करुणः करुणास्पदत्वात् करुणः प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रस इत्यर्थः ८, प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्तः, परमगुरुवचः श्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण ९॥ एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाहमू. (२१५) तत्थ परिच्चायमि अतवचरणे सत्तुजनविनासे । ___ अननुसयधितिपरक्कमलिंगो वीरो रसो होइ। मू. ( २१६ )वीरो रसो जहा-सो नाम महावीरो जो रज्जं पयहिऊण पव्वइओ। कामकोहमहासत्तूपक्खनिग्घायणं कुणइ॥ वृ.'तत्र' तेषु नवसुरसेषु मध्ये 'परित्यागे' दाने 'तपश्चरणे' तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यमननुशयधृतिपराक्रमचिह्नो वीरो रसो भवति-इदमुक्तं भवति-दाने दत्ते यदाऽनुशयोगर्व: पश्चात्तापो वा तं न करोति, तपसि च कृते धृतिं करोति नार्तध्यां, शत्रुविनाशे च पराक्रमते न तु वैक्लुव्यमवलम्बते, तदा एतैलिङ्गैीयतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति। उदाहरणनिदर्शनार्थमाह-वीरो रसो 'यथे'त्युपदर्शनार्थमेतत्, ‘सो नाम'गाहा पाठसिद्धा, नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवप्रकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः, अपरं चेहोत्तमपुरुषजेतव्यकामक्रोदिभावशत्रुजयनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति, एवमन्यत्रापि भावार्थोऽवगन्तव्य इति। श्रृङ्गाररसं लक्षणतस्त्वाहमू. ( २१७) संगारो नाम रसो रतिसंजोगाभिलाससंजननो। मंडपविलासविब्बोअहासलीलारमनलिंगो। मू. (२१८ )सिंगारो रसो जहा-महुरविलाससललिअंहियउम्मादणकर जुवाणाणं । सामा सहुदामं दाएती मेहलादामं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257