Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 141
________________ ३८१ मूलं-२५५ कवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मोयत इति तात्पर्यम्, क्षेत्रे-कृषिकमादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धनैवावमानविशेषेण क्षेत्रं मीयते इति हृदयं, पथि-मार्गविषये धनुरेव मानं, मार्गगव्यूतादिपरिच्छेदो धनुःसंज्ञाप्रसिद्धनैवावमानविशेषेण क्रियते न दण्डादिभिरितिः भावः, खातं च-कूपादि नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते, एवं युगादिरपि यस्य तत्र व्यापारो रूढस्तस्य तत्र वाच्यः, यत्कथंभूतं हस्तदण्डादिकमित्याह-अवमानसंज्ञयोपलक्षितमिति गाथार्थः। मू.( २५६) एएणं अवमानपमानेनं किं पओअणं?, एएणं अवमानपमाणेणं खाचिअरइअकरकचियकडपडभित्तिपरिक्खेवसंसियाणं दवाणं अवमाणपमाणनिधिअत्तिलक्खणं भवइ, सेतं अवमाने से कितं गणिमे?, २ जन्नं गणिज्जइ, तंजहा-एगो दस सयं सहस्संदस सहस्साइंसयसहस्सं दस सयसहस्साई कोडी, एएणं गणिमप्पमाणेणं किं पओअणं?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्वयसंसिआणं दव्वाणं गणियप्पमाणनिवित्तलक्खणं भवइ, से तं गणिमे। वृ.एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितर्थमेवं, नवरंखातं-कूपादि चितं त्विष्टिकादि रचितं-प्रासादपीठादि क्रकचितं-करपत्रविदारितं काष्ठादि, कटादयः प्रतीता एव, परिक्षेपो-मित्त्यादेरेव परिधि: नगरपरिखदिर्वा, एतेषां खातादिसंसृतानामभेदेऽपि भेदविकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति तदेतदवमानमिति निगमनम्। __ 'से किं तं गणीमे' इत्यादी, गण्यते-सङ्घयायते वस्त्वनेनेति गणिमम्-एकादि, अथवा गण्यते-सङ्ख्यायते यत्तद्गणिमं-रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह-'जण्ण'मित्यादि, गण्यते तद्गणिमं, कथं गण्यते इत्याह-'एक्को' इत्यादि, एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतक:-कर्मकरो भृतिः-पदात्यादीनां वृत्तिः भक्तंभोजनं वेतनकं-कुविन्दादिना(दीनां) व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु आयव्ययसंश्रितां-प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निवृत्तिलक्षणम्-इयत्तावगमरूपं भवति, तदेतद्गणिममिति । अथ प्रतिमानप्रमाणं निरूपयितुमाह मू.( २५६ वर्तते) से किंतं पडिमाणे?, जण्णं पडिमिणिज्जइ, तंजहा-गुंजा कागणी निप्फाओ कम्ममासओ मंडलओ सुवन्नो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया, चत्तारि कागणीओ कम्ममासओ तित्रि निप्फावा कम्ममासओ एवं चउक्को कम्ममासओ काकण्यपेक्षयेत्यर्थः, बारस कम्ममासया सुक्नो एवं चउसद्धिकागणीओ सुवन्नो, एएणं पडिमाणपमानेनं किं पओअणं?,एएणं पडिमानपमाणेणं सुवन्नरजतमणिमोत्तिअसंखसिलप्पवालाईणं दव्वाणं पडिमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं पडिमाणे। . - से तं विभागनिप्फन्ने। से तं दव्वपमाणे।। वृ.मीयतेऽनेनेति मानं भेयस्य-सुवर्णादेः प्रतिरूपं-सदृशं मानं प्रतिमानं-गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमान, तत्र गुञ्जा चणोठिया १ सपादा गुञ्जा काकणी र सत्रिभागकाकण्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257