Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं-- २६७
३८९
इक्करयणी अ, वालुअप्पहापुढवीए नेरइआणं भंते! के महालिआ सरीरोगाहए पन्नत्ता ?, गो० ! दुविहा पत्ता, तंजहा- भवधारणिज्जा उत्तरवेडव्विआ य, तत्थ नं जा सा भवधारणिज्जा सा जहत्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्ठि धनूई, दो श्यणीओ अ, एवं सव्वासिं पुढवीणं पृच्छा भाणिअव्वा,
पंकप्पहाए पुढवीए भवधारणिज्जा जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्टि धनूई, दो रयणीओ अ, उत्तरवे० जहन्त्रेणं, अं० सं० उक्कोसेणं पणवीसं धनुसयं, धूमप्पहाए भवधा० अंगुलाई, अ० उक्कोसेणं पणवीसं धनुसयं, उत्तरवे० अंगुलस्स संखे० उक्कोसेणं अड्डाइजाइं धनुसयाई, तमाए भवधारणिज्जा० अंगुलस्स असं० उक्कोसेणं अड्डाइज्जाई धनुसयाई, उत्तरवे० अंगुलस्स सं० उक्कोसेणं पंच धनुसयाई, तमतमाए पुढवीए नेरइयाणं भंते! के महालिआ सरीरोगाहणा पं० ?, गो० ! दुविहा पत्रत्ता, तंजहा- भवधारणिज्जा य उत्तरवे०, तत्थ नं जा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं पंच धनूसयाई तत्थ णं जा सा उत्तरवे० सा जहन्त्रेणं, अंगुलस्स सं० उक्कोसेणं धनुसहस्साई,
असुरकुमाराणं भंते! के महालिआ सरीरोगाहणा पं० ?, गो० ! दुविहा पन्नत्ता, तंजहाभवधारणिज्जा उत्तरवे० य, तत्थ णंजा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं सत्त रयणीओ, उत्तरवे० सा जहत्रेणं, अंगुलस्स सं० उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणिअव्वा ।
वृ. अवगाहन्ते - अवतिष्ठन्ते जीवा अस्यामित्यवगाहना-नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा, यद्यनेनोत्से धांगुलेन नारकादीनां शरीरावगाहना मीयते तर्हि भदन्त ! नारकाणां तावत् 'के महालिया' कियन्महती किं महत्त्वोपेता कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेवमनुजासुरायां पर्षदि प्रज्ञप्ता-प्ररूपिता ?, अत्र भगवान् गौतममामन्त्र्योत्तरमाह - गौतम ! द्विविधा- द्विप्रकारा प्रज्ञप्ता, तद्यथा - भवधारणीया चोत्तरवैक्रिया च, ननु शरीरावगाहनायाः प्रमाणे पृष्टे तद्द्द्विविध्यलक्षणभेदकथनमप्रस्तुतंमिति चेत्, नैवं, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत्कथ्यत इति भावः, तत्र भावे - नारकादिपर्यायभवनलक्षणे आयुसमासिं यावत्सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया, तत्र भवधारणीया जघन्यतोऽगुलासङ्ख्येयभागमात्रा उत्पद्यमानानां, उत्कृष्टा तु पञ्चधनुः शतमाना सप्तमपृथिव्याम्, उत्तरवैक्रिया त्वाद्यसमयेऽप्यंगुलस्य सङ्ख्य भाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयस्य भागस्य कर्तुमशक्यत्वादिति भावः, उत्कृष्टा तु धनुःसहस्रप्रमाणा सप्तमपृथिव्यामेव, ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह- 'रयणप्पहापुढवी' इत्यादि, सूत्रसिद्धमेव, नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु दृष्टव्याः भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया, तदेवं
"नेरइया असुराई पुढवाई बेंदियादओ तहय ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257