Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवाय: - १
९
संपदुपेतोऽपि छद्मवान् मिथ्योपदेशित्वान्नोपकारीति निश्छद्यताप्रतिपादनायास्याह, अथवा कथमस्यप्रतिहतसंवेदनत्वंसम्पन्नं ?
अत्रोच्यते, आवरणाभाव। एतदेवाह - व्यावृत्तं निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछद्मना मायावरणयोश्चाभावोऽस्य रागादिजयाज्जात इत्यत आहजयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिनस्तेन, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञापकस्तेन, अनन्तरमस्य स्वार्थसम्पत्त्युपाय उक्तः अधुना स्वार्थसम्पत्तिपूर्वकं परार्थसम्पादकत्वं विशेषणषट्केनाह-तीर्ण इव तीर्ण, संसार- सागरमिति गम्यते, तेन, तथा तारयति परानप्युपदेशवर्त्तिन इति तारकस्तेन, तथा बुद्धेन जीवादि- तत्त्वं, तथा बोधकेन जीवादित्तत्वमेवापरेषां ।
तथा मुक्तेन बाह्याभ्यन्तरग्रन्थिबन्धनात्, मोचकेन तत एव परेषां तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेव भाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात् ।
अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात् ।
अरुजम् - अविद्यमानरोगं, शरीरमनसोरभावात्, अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात् अक्षयम्-अनाशं साद्यपर्ययवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात् ।
अपुनरावर्तकम् अविद्यमानपुनर्भवावतारं, तद्वीजभूतकर्माभावात् सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं तिष्ठति यस्मिन् कर्मद्विकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानंक्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रंवा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं सम्प्राप्तुकामेन यातुमनसा न तु तव्यासेन, तत्प्राप्तस्याकरणत्वेन प्रज्ञापनाऽभावात्, प्राप्तुकामेनेति यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, 'मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तम' इति वचनादिति ।
तदेवमगणितगुणगणसम्पदुपेतेन भगवता 'इमं' ति इदं वक्ष्यमाणतया प्रत्यक्षमासन्नं च द्वादशाङ्गानि यस्मिंस्तद् द्वादशाङ्ग गणिनः आचार्यस्य पिटकमिव पिटकं गणिपिटकं, यथा हि वालक वाणिजकस्य पिटकं सर्वस्वाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वस्वाधारकल्पं भवतीति भावः ।
प्रज्ञप्तं तीर्थङ्करनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितं, 'तद्यथे'त्युदाहरणोपदर्शने । आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ट्यानि, 'तत्थ णं'ति तत्र-द्वादशाङ्गे णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थ आत्मादि अभिधेयो भवतीति गम्यते, 'तद्यथे 'ति वाचनान्तरद्वितीयसम्बन्धसूत्रव्याख्येति ।
इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिघातव्य इति न्यायः, तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बन्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् 'एगे आया' इत्यादिभिरष्टादशभि सूत्रैराह, स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि किच्चिदुच्यते ।
एक आत्मा, कथच्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयं, तत्र प्रदेशार्थतया असङ्ख्या
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 204