Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ समवायाङ्गसूत्रम्-१/१ वा तद्भाव्यानां यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह - लोकस्य-विशिष्टतिर्यग्नरामररूपस्यान्तरमितिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वाप्रदीप इव प्रदीपो लोकप्रदीपस्तेन, इदं च विशेषणं द्रष्टुलोकमाश्रित्योक्तम् - अथ श्यलोकमाश्रित्याह-लोकस्य-लोक्यते इति लोक इति व्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तेन प्रद्योतं-प्रकाशंकरोतीत्येवंशीलो लोकप्रद्योतकरस्तेन, ननु लोकनाथत्वादिविशेषणयोगी हरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह नभयं दयते-प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः अभया वासर्वप्राणिभयपरिहारवती दया-घृणा यस्यासावभयदयो, हरिहरादिस्तु नैवमिति, तेनाभवदयेन, न केवलमसावपकारकारिणामप्यनर्धपरिहारमानं करोति अपित्वर्थप्राप्तिं करोतीति दर्शयन्नाह। चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाच्चितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षुरुदघाटनं मार्गदर्शनं च कृत्वाचौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयस्तेन। यथाहि लोके चक्षुर्मार्गशरणदानात् दुःस्थानांजीवितव्यं ददाति एवमिहापीति दर्शयन्नाहजीवनं जीवो-भावप्राणधारणमरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा दया यस्य स जीवदयोऽतस्तेन, इदं चान्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तित्वात्सम्पन्नमिति धर्मात्मकतामस्थान्य- विशेषणपञ्चकनाह-धर्म-श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधारणस्वभावं दयतेददातीति धर्मदयस्तेन, तद्दानं चास्य तद्देशनादेवेत्यत आह - धर्मम्-उक्तलक्षणं देशयति-कथयतीतिधर्मदेशकस्तेन, धर्मदेशकत्वंचास्यधर्मस्वामित्वे सति न पुनर्यथा नटस्येति दर्शयत्राह - धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायकः-स्वामी यथावत्पालनाद्धर्मनायकस्तेन, तथाधर्मस्य सारथिधर्मसारथि, यथारथस्य सारथीरथं रथिकमश्वांश्च रक्षति एवं भगवांश्चारित्रधङ्गिानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारधिर्भवतीति तेन धर्मसारधिना, तथा त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ पृथिव्याः चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती-राजातिशयः धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हिपृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवतितधा भगवान् धर्मविषये शेषप्रणेतृणां मध्येसातिशयत्वात्तथोच्चतइति तेन धर्मवरचातुरन्तचक्रवर्तिना, एतच्च धर्मदायकत्वादिविशेषणपञ्चकं प्रकृष्टज्ञानादियोगे सति भवतीत्यत आह - अप्रतिहते-कटकड्यपर्वतादिभिरस्खलिते अविसंवादकेवाअत एव क्षायिकत्वाद्वावरेप्रधाने ज्ञानदर्शने केवललक्षणे धरयतीति अप्रतिहतवरज्ञानदर्शनधरस्तेन, एवंविधसंवेदन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 204