Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ ७ समवाय: - १ अथवा पाठान्तरेण मयेत्यस्य विशेषणमिदं आवसता मया गुरुकुले आमृशता वा संस्पृशता वा मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति, यद्वा 'आउसंतेणं' ति आजुषमाणेन वा प्रीतिप्रवणमनसेति, यदाख्यातं तदधुनोच्यते 'एगे आया' इत्यादि, कस्यांचिद्वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा-' इह खलु समणेणं भगवया' इत्यादि, तामेव च वाचनां बृहत्तरत्वाघ्याख्यास्यामः, इदं च द्वितीयसूत्रं सङ्ग्रहरूप - प्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम्, अस्य चैवं गमनिका 'इह' अस्मिल्लोके निर्ग्रन्थतीर्थे वा, खलु वाक्यालङ्कारे अवधारेण वा, तथा च इहैव, न शाक्यादिप्रवचनेषु श्राम्यति - तपस्यतीति श्रमणस्तेन, इदं चान्तिमजिनस्य सहसम्पन्नं नामान्तरमेव, यदाह - 'सहस्रं मुइयाए समणे' त्ति, भगवतेति पूर्ववत् महांश्चासौ वीरश्चेति महावीरस्तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपसर्गनिपातेऽप्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम् आह च- 'अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं (से नामं) कए महावीरे त्ति, कथम्भूतेनेत्याहआदौ - प्राथम्येन श्रुतधर्ममाचारदिग्रन्थात्मकं करोति तदर्थप्रयाणकत्वेन प्रणयतीत्येवंशील आदिकरस्तेन । तथा तरन्ति येन संसारसागरमिति तीर्थं प्रवचनं तदव्यतिरेकादिह सङ्घस्तीर्थं तस्य करणशीलत्वात्तीर्थकरस्तेन, तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह- स्वयम्आत्मनैव नान्योपदेशतः सम्यग्वुद्धो हेयोपादेयवस्तुत्त्वं विदितवानिति स्वयंसम्बुद्धस्तेन - स्वयंसम्बुद्धत्वं चास्य न प्राकृ तस्येव संभाव्यं पुरुषोत्तमत्वादस्येत्यत आह-पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद्-उर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमस्तेन, अथ पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयत्राह - सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृ ष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः । शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहति प्रवर्द्धमानाशरीरकुब्जताकरणाच्च इत्यतस्तेन, तथा वरं च तत्पुण्डरीकं च वरपुण्डरीकंधवलं सहस्रपत्रं पुरुष एव वरपुण्डरीकं पुरुषवरपुण्डरीकं, धवलता चास्य भगवतः सर्वाशुभमलीमसरहत्वात् सर्वैश्च शुभैरनुभावैः शुद्धत्वादित्यतस्तेन । तथा वरश्चासौ गन्धहस्ती च वरगन्धहस्ती पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव सर्वगजा भज्यन्ते तथा भगवतस्तद्देशविहरणेन इतिपरचक्रदुर्भिक्षजनडमरकादीनि दुरितानि शतयोजनमध्ये नश्यन्तीति अतस्तेन पुरुषवरगन्धहस्तिना । न भगवान् पुरुषाणामेवोत्तमः किन्तु सकलजीवलोकस्यापीत्यत आह- लोकस्य तिर्यग्नरनारकनाकिलक्षणजीवलोकस्योत्तमः चतुस्त्रिं द्बुद्धातिशयाद्यसाधारणगुणगणोपेततया सकलसुरासुरखचरनरनिकरनमस्यतया च प्रधानो लोकोत्तमस्तेन । लोकोत्तमत्वमेवास्य पुरुस्कुर्वन्नाह-लोकस्य सञ्चिभव्यलोकस्य नाथः प्रभुर्लोकनाथस्तेन नाथत्वं चास्य ‘योगक्षेमकृन्नाथ' इति वचनादप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य तस्यैव पालनेन चेति, लोकनाथत्वं च तात्त्विकंतद्धितत्वे सति सम्भवतीत्याह-लोकस्य एकेन्द्रियादिप्राणिगणस्य हितः- आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणं नानुकूलवर्ती लोकहितस्तेन, यदेतन्नाधत्वं हितत्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 204