Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 571
________________ कर्मक्षय नमस्कार & भण्णति- जदा केवलं गाणं उप्पाडेंति तदा चत्वारि घातिकमे खवेति, तं च जथा खवगसढीए तत एवं पोढाप्रकलप्तद्रव्यगणं व्याख्यायाम यथास्वं द्वितयपर्यायकलापविभूतिवशीकृतं प्रतिस्वं शेषविधिना लोकालोकं प्रकाश्य भगवंतोऽचिन्त्यभूतिविशेषाः जघन्येनान्त॥५६९॥ | मुहूर्तमुत्कर्षेण देशोनां पूर्वकोटी केवलिपर्यायमनुभूय समवाप्नुवंति सिद्धिमजागरामिति । अथ सिध्यता को विधिरिति प्रश्ने सि| ध्यद्विधिप्रक्रियादर्शनार्थ पश्चिमस्कंधनिरूपणा क्रियते, अथ किमिदं पश्चिमस्कंध इति प्रश्ने व्याख्यायते-औदारिवैक्रियाहारकतैज| सकार्मणानि शरीराणि स्कन्ध इत्याचक्ष्महे, पश्चिमशरीरं पश्चिमभव इति यावदुक्तं स्यात् तावदिदै पश्चिमस्कन्ध इति, कथम् ?, इह यस्मादयमनादौ संसारे परिभ्रमन् स्कंधान्तराणि भूयांसि गृह्णाति मुंचति च, तस्माद्यमवाप्य स्कन्धमाविर्भूतासाधारणज्ञानदशनचारित्रबलः भूयः स्कन्धान्तरमन्यदात्मा नोपादत्ते स पश्चिमस्कन्ध इति शब्द्यते, स्वोपात्तमनुष्यायुषोऽन्तः प्रक्षयवशाद् भुक्तस्यान्तर्मुहूर्तशेषे सिध्यत्पर्यायाभिमुखा अवश्यकरणं कुर्वतीति । कथमिदमवश्यकरणमिति प्रश्ने प्रदर्श्यते, अन्वर्थत्वावश्यकरणसंज्ञा याः, भास्करवत् , अवश्यकरणीयत्वादवश्यकरणं, कथमियमन्यर्थेति दयते, अर्थमनुगता या संज्ञा साऽन्वर्था, अर्थमंगीकृत्य प्रवनर्तत इत्यर्थः, कथम् ?, इह यथा भास्करसंज्ञा अन्वर्था, कथमन्वर्था ?, भासं करोतीति भास्कर इति यो भासनार्थः तमंगीकृत्य प्रवर्तत इत्यन्वर्था, तथाऽवश्यकरणमिति इयं संज्ञा अन्वर्था, कथमिति चेत् , महे, अवश्यं क्रियत इत्यवश्यकरणं इति योऽवश्य| करणार्थोऽवश्यकर्तव्यता तमंगीकृत्य प्रवर्तते यस्मात् तस्मात्सर्वकेवलिभिः सिध्यद्भिरवश्यं क्रियमाणत्वादवश्यकरणमित्यन्वर्थसंज्ञा-1 सिद्धिः, अथवा अवश्यंभाव आवश्यकं 'द्वंद्वमनोज्ञादिभ्यश्चेति मनोज्ञादेरधिकृतत्वात् बुजि सत्यावश्यकसिद्धिः, आवश्यकं करणं आवश्यककरणं, कुतः?, लोके दृष्टत्वात् मल्लस्य कक्षाबन्धकरणवत् , यथा मल्लो युयुत्सु वद्ध्वा साटकं युध्यते, स ECRUNCATEGREEN ॥५६९॥

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620