Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 578
________________ CAT नमस्कार यसमये प्रथमसमयाकृष्टाविभागपरिच्छेदानां असंख्येयेभ्यो भागेभ्यः सकाशादसंख्येयगुणहीन भागमाकर्षयति, असंख्येयभागमाकर्षय-8 समुद्घात व्याख्यायांत तीत्यर्थः, जीवप्रदेशानामपि च प्रथमसमयाकृष्टजीवदेशासंख्येयभागसकाशादसंख्येयगुणभागमाकर्षयति, असंख्येयभागानाकर्षयती॥५७६॥ त्यर्थः, एतेन विधिनाऽऽकृष्य योगजधानुग्रहादपूर्वस्पर्धकानि करोति, एवं समये समये मागं करोति यावत्पूर्णोऽन्तर्मुहूर्त इति, कियन्ति पुनः स्पर्धकानि करोतीति प्रश्ने महे-श्रेण्या असंख्येयभागमात्राणि, श्रेणिवर्गमूलस्याप्यसंख्येयभागमात्राणि, पूर्वस्पर्धकानामप्यसंख्येय-8 है भागमात्राणि, एवमपूर्वस्पर्धककरणे समाप्ते अत ऊर्ध्वमुपर्यनन्तरसमयमेव कृष्टीः कर्तुमारब्धोऽन्तर्मुहूर्तेन सर्वाः करोति । अथ किमिदं कृष्टि-है रिति प्रश्नेऽभिधीयते-कर्मणः कर्शनं कृष्टिः, अल्पीकरणमित्यर्थः, अथ कृष्टेः करणे को विधिरिति प्रश्ने व्याचक्ष्महे, पूर्वस्पर्धकानामपूर्वस्पधकानां चाधस्तात् या आदिवर्गणाः तासामविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहात् असंख्ययान् भागान् कर्षति, असंख्येयभागं स्थापयति, जीवप्रदेशानामप्यसंख्येयान् भागान् कर्षति, असंख्येयं भागं स्थापयति, एवमादिकृष्ट्या प्रथमसमये कृष्टीः करोति, अथ द्वितीयसमये प्रथमसमयाकृष्टानामविभागपरिच्छेदानामसंख्येयेभ्यो भागेभ्यः सकाशात्संख्येयगुणहीन भागमाकर्षयति, असंख्येयभागमाकर्षयतीत्यर्थः, जीवप्रदेशानामपि प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागसकाशादसंख्येयगुणं भागमाकर्षयति, असंख्येयान् भागानाकर्षयतीत्यर्थः, एवमनेन विधिनाऽऽकृष्याकृष्य कृष्टीः करोति, एवं समये २ कृष्टयः क्रियमाणाः क्रियन्ते तावद्यावच्चरमसमयकृष्टिरिति, तत्र प्रथमसमयाः कृष्टयः कृता असंख्येयगुणास्ततो द्वितीयसमये असंख्येयगुणहीनाः, ५७६॥ एवं समये समये असंख्येयगुणहीनया श्रेण्या कृतास्तावद्यावदन्तमुहूर्त इति , तत्र याः कृष्टयः प्रथमसमयकृतास्ता असंख्येयगुणाः | कृताः द्वितीयसमयकृताभ्यः सकाशाद् , अथ याः द्वितीयसमयकृतास्ताःप्रथमसमयकृतकृष्टिप्रमाणाः कथं भवंतीति प्रश्नेऽभिधीयते ॐॐॐॐॐॐ

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620