Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४४)
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम [१३६ ]
“नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ४३ ] / गाथा || ८९... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
मस्य दरिद्रस्य न विद्यते इति, यदपि चोक्तं- 'न तत्तस्येति व्यपदेष्टुं शक्य' मिति, तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं, न पुनर्नास्तित्वेनापि, ततो न कश्चिलौकिकव्यवहारातिक्रमः, ननु नास्तित्वमभावः अभावश्च तुच्छरूपः तुच्छत्वेन च सह कथं सम्बन्धः १, तुच्छस्व सकलशक्तिविकलतया सम्बन्धशक्तेरप्यभावात्, अन्यच्च यदि परपर्यायाणां तत्र नास्तित्वं तर्हि नास्तित्वेन सह सम्बन्धो भवतु, परपर्यायैस्तु सह कथं १, न खलु घटः पटाभावेन सम्बद्धः पटे नापि सह सम्बद्धो भवितुमर्हति तथाप्रतीतेरभावात्, तदेतदसमीचीनं, सम्यक वस्तुतत्वापरिज्ञानात्, तथाहिनास्तित्वं नाम तेन तेन रूपेणाभवनमिध्यते तच तेन तेन रूपेणाभवनं वस्तुनो धर्मः, ततो नैकान्तेन तत्तुच्छरूपमिति न तेन सह सम्बन्धाभावः, तदपि च तेन तेन रूपेणाभवनं तं तं पर्यायमपेक्ष्य भवति नान्यथा, तथाहि – यो यो घटादिगतः पर्यायस्तेन तेन रूपेण मया न भवितव्यमिति सामर्थ्यात्तं तं पर्यायमपेक्षते इति सुप्रतीतमेतत् ततस्तेन तेन पर्यायेणाभवनस्य तं तं पर्यायमपेक्ष्य सम्भवात्तेऽपि परपर्यायास्तस्योपयोगिन इति तस्येति व्यपदिश्यन्ते, एवंरूपायां च विवक्षायां पटोऽपि घटस्य सम्बन्धी भवत्येव, पटमपेक्ष्य घटे पटरूपेणाभवनस्य भावात् तथा च लौकिका अपि घटपटादीन् परस्परमितरेतराभावमधिकृत्य सम्बद्धान् व्यवहरन्तीत्यविगीतमेतत्, इतश्च ते परपर्या | यास्तस्येति व्यपदिश्यन्ते - खपर्यायविशेषणत्वेन तेषामुपयोगात्, इह ये यस्य खपर्याय विशेषणत्वेनोपयुज्यन्ते ते तस्य पयया यथा घटस्य रूपादयः पर्यायाः परस्परविशेषकाः, उपयुज्यन्ते चाकारस्य पर्यायाणां विशेषकतया घटादिपर्यायाः,
tamatond
For Park Use Only
~ 402~
खपर
पर्यायाः
५
१०
१३
rary org

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514