SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४३] दीप अनुक्रम [१३६ ] “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ ४३ ] / गाथा || ८९... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः मस्य दरिद्रस्य न विद्यते इति, यदपि चोक्तं- 'न तत्तस्येति व्यपदेष्टुं शक्य' मिति, तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं, न पुनर्नास्तित्वेनापि, ततो न कश्चिलौकिकव्यवहारातिक्रमः, ननु नास्तित्वमभावः अभावश्च तुच्छरूपः तुच्छत्वेन च सह कथं सम्बन्धः १, तुच्छस्व सकलशक्तिविकलतया सम्बन्धशक्तेरप्यभावात्, अन्यच्च यदि परपर्यायाणां तत्र नास्तित्वं तर्हि नास्तित्वेन सह सम्बन्धो भवतु, परपर्यायैस्तु सह कथं १, न खलु घटः पटाभावेन सम्बद्धः पटे नापि सह सम्बद्धो भवितुमर्हति तथाप्रतीतेरभावात्, तदेतदसमीचीनं, सम्यक वस्तुतत्वापरिज्ञानात्, तथाहिनास्तित्वं नाम तेन तेन रूपेणाभवनमिध्यते तच तेन तेन रूपेणाभवनं वस्तुनो धर्मः, ततो नैकान्तेन तत्तुच्छरूपमिति न तेन सह सम्बन्धाभावः, तदपि च तेन तेन रूपेणाभवनं तं तं पर्यायमपेक्ष्य भवति नान्यथा, तथाहि – यो यो घटादिगतः पर्यायस्तेन तेन रूपेण मया न भवितव्यमिति सामर्थ्यात्तं तं पर्यायमपेक्षते इति सुप्रतीतमेतत् ततस्तेन तेन पर्यायेणाभवनस्य तं तं पर्यायमपेक्ष्य सम्भवात्तेऽपि परपर्यायास्तस्योपयोगिन इति तस्येति व्यपदिश्यन्ते, एवंरूपायां च विवक्षायां पटोऽपि घटस्य सम्बन्धी भवत्येव, पटमपेक्ष्य घटे पटरूपेणाभवनस्य भावात् तथा च लौकिका अपि घटपटादीन् परस्परमितरेतराभावमधिकृत्य सम्बद्धान् व्यवहरन्तीत्यविगीतमेतत्, इतश्च ते परपर्या | यास्तस्येति व्यपदिश्यन्ते - खपर्यायविशेषणत्वेन तेषामुपयोगात्, इह ये यस्य खपर्याय विशेषणत्वेनोपयुज्यन्ते ते तस्य पयया यथा घटस्य रूपादयः पर्यायाः परस्परविशेषकाः, उपयुज्यन्ते चाकारस्य पर्यायाणां विशेषकतया घटादिपर्यायाः, tamatond For Park Use Only ~ 402~ खपर पर्यायाः ५ १० १३ rary org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy