Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
________________
आगम
(४४)
प्रत
[ ५९ ]
+
||८६
-९०||
दीप
अनुक्रम
[१५५
-१५७]
श्रीमलय
गिरीया नन्दीवृत्तिः
॥२५० ॥
Eticatior
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [ ५९ ]/ गाथा ||८६-९०||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
भावः, षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, ततः सप्तमे श्रवणे परिनिष्ठा - गुरुवदनुभाषते । एवं तावच्छ्रवणविधिरुक्तः, सम्प्रति व्याख्यानविधिमभिधित्सुराह - 'सुत्तत्थो' इत्यादि, प्रथमानुयोगः सूत्रार्थः - सूत्रार्थप्रतिपादनपरः, खलुशब्द एवकारार्थः, स चावधारणे, ततोऽयमर्थः- गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिधानलक्षण एव कर्त्तव्यः, मा भूत् प्राथमिकविनेयानां मतिमोहः, द्वितीयोऽनुयोगः सूत्रस्पर्शिक नियुक्तिमिश्रितो भणितस्तीर्थकर - गणधरैः, सूत्रस्पार्शकनिर्युक्तिमिश्रितं द्वितीयमनुयोगं गुरुर्विदध्यादित्याख्यातं तीर्थकरगणधरैरिति भावः, तृतीयधानुयोगो निरवशेषः - प्रसक्तानुप्रसक्तप्रतिपादनलक्षण इत्येषः - उक्तलक्षणो विधिर्भवसनुयोगे-व्याख्यायाम्, आह-परिनिष्ठा सप्तमे इत्युक्तं, त्रयश्चानुयोगप्रकारास्तदेतत्कथम् ?, उच्यते, त्रयाणामनुयोगानामन्यतमेन केनचित्प्रकारेण भूयो २ भाव्यमानेन सप्त वाराः श्रवणं कार्यते ततो न कश्चिद्दोषः, अथवा कञ्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं न पुनरेष एव सर्वत्र श्रवणविधिनियमः, उद्घटितज्ञविनेयानां सकृच्छ्रवणत एवाशेपग्रहणदर्शनादिति कृतं प्रसझेन, 'सेत्त' मित्यादि, तदेतच्छ्रुतज्ञानं, तदेतत्परोक्षमिति ॥ नन्यध्ययनं पूर्व प्रकाशितं येन विषमभावार्थम् । तस्मै श्रीचूर्णिकृते नमोऽस्तु विदुषे परोपकृते ॥ १ ॥ मध्येसमस्तभूपीठं, यशो यस्याभिवर्द्धते । तस्मै श्रीहरिभद्राय नमष्टीकाविधायिने ॥ २ ॥ वृत्तिर्वा चूर्णिर्वा रम्याऽपि न मन्दमेधसां योग्या । अभवदिह तेन तेषामुपकृतये यल एप कृतः ॥ ३ ॥ बह्वर्थमल्पशब्दं नन्यध्ययनं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्रुतां लोकः
For Penal Use On
~ 503~
श्रुतभेदाः श्रुतलाभः
बुद्धिगुणो
अनुयोगव
.५९
गा. ८६-९०
२०
॥२५०॥ २५
Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514