Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[१४०]
श्रीमलयनिरीया नन्दीवृत्तिः
॥२२३॥
“नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ४७ ] / गाथा ||८९... ||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र- [ १ ] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
र्त्तते इत्यनवस्था, अथान्यत इति पक्षः, तदप्ययुक्तं, नियतिव्यतिरेकेणान्यस्य हेतुत्वेनानभ्युपगमादिति यत्किञ्चिदेतत् अज्ञानवाद्यकिंच-अनेकरूपमिति पक्षाभ्युपगमे भवतः प्रतिपन्थि विकल्पयुगलमुपढौकते-तद्धि मूर्त्तं वा स्यादमूर्त्त या ?, यदि मूर्त्त & धिकारः तर्हि नामान्तरेण कम्मैव प्रतिपन्नं, यस्मात्तदपि कर्म्म पुद्गलरूपत्वात् मूर्त्तमनेकं चास्माकमभिप्रेतं भवताऽपि च नि यतिरूपं तत्त्वान्तरमनेकं मूर्त्तं चाभ्युपगम्यते इत्यावयोरविप्रतिपत्तिः, अथामूर्त्तमित्यभ्युपगमस्तर्हि न तत्सुखदुःखनिबन्धनम्, अमूर्त्तत्वात्, न खल्वाकाशममूर्त्तमनुग्रहायोपघाताय वा जायते, पुद्गलानामेवानुग्रहोपघातविधान समर्थत्वात्, “जमणुग्गहोबघाया जीवाणं पुग्गलेहिंतो” इति वचनात् अथ मन्येथाः - दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं, तथाहि - मरुस्थलीप्रभृतिषु देशेषु दुःखं शेषेषु तु सुखमिति, तदप्यसत्, तत्रापि तदाकाशस्थिताना| मेव पुद्गलानामनुग्रहोपघातकारित्वात्, तथाहि-- मरुस्थलीप्रायासु भूमिषु जलविकलतया न तथाविधा धान्यसम्पत्, वालुकाकुलतया चाध्वनि प्राणिनां गमनागमनविधावतिशायी पदे २ खेदो निदाघे च खरकिरण तीव्र करनिकरसम्प|र्कतो भूयान् सभ्तापो जलाभ्यवहरणमपि खल्पीयो महाप्रयत्नसम्पाद्यं चेति महत्तत्र दुःखं, शेषेषु तद्विपर्ययात्सुखमिति तत्रापि पुद्गलानामेवानुग्रहोपघातकारित्वं नाकाशस्येति, अथाभावरूपमिति पक्षस्तदप्ययुक्तं, अभावस्य तुच्छरूपतया सकलशक्तययोगतः कार्यकारित्वायोगात्, नहि कटककुण्डलाद्यभावतः कटककुण्डलायुपजायते, तथादर्शनाभावात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेर्विश्वस्यादरिद्रताप्रसङ्गः, नन्विह घटाभावो मृत्पिण्ड एवं तस्माचोप
Education Internationa
For Pasta Use Only
~ 449~
२०
॥२२
२५
mar

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514