Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 457
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ ४७ ] / गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत् न च निवारयति, न च विप्रतारयति, करोति च देशनां कृतकृ| त्योऽपि तीर्थकरनामकर्मोदयात्, ततो ज्ञायते एष एवास्योपदेशस्वार्थ इति उक्तं च- " नांएऽवि तदुवएसे एसेवत्थो मउति से एवं । नज्जद पवत्तमाणं जं न निवारेइ तह चैव ॥ १ ॥ अन्नह य पवसंतं निवारई न य तओ पर्वचेई । जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥ २ ॥” एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्याअर्थनिश्वये जाते यदुक्तं- 'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्याप्युक्तप्रकारेण भगवदुपदेशार्थनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिबेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्य परम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापा कर्त्तुमशक्यत्वात्, अपिचभवद्दर्शनमपि किमागममूलमनागममूलं वा ?, यद्यागममूलं तर्हि कथमाचार्य परम्परामन्तरेण ?, आगमार्थस्यावचोदुमशक्यत्वात्, अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत्, अथ यद्यपि नागममूलं तथापि युक्तत्युपपन्न १ ज्ञातेऽपि तदुपदेशे एष एवार्थो मत इति तस्यैवम् ज्ञायते वर्तमानं यन्त्र निवारयति तथैव ॥ १ ॥ अन्यथा प्रवर्तमानं निवारयेत् न च ततः प्रवश्यते । यस्मात् स वीतरागः कथने पुनः कारणं कर्म ॥ २ ॥ २ संकेतिताः । For Parts Only ~456~ अज्ञानवाद्यधिकार: ५. yor

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514