Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 449
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत E56425% सूत्रांक [४७]] %2% 4 करणखभावा, द्वितीयादिषु क्षणेषु तत्करणस्वभावताऽभ्युपगमे नित्यत्वक्षितिप्रसङ्गात् , ततः प्रथमेऽपि क्षणे सर्वसहका वातासमक्ष सपसहका-आज्ञनवाद्यरिणां सम्भवात् सकलकार्यकरणप्रसङ्गः, अपिच-सहकारिषु सत्सु भवति कार्य तदभावे च न भवति ततः सहकारिणामे- 1धिकार:वान्वयव्यतिरेकदर्शनात् कारणता परिकल्पनीया, न नियतेः, तत्र व्यतिरेकासम्भवात् , उक्तं च-"हेतुताऽन्वयपूर्वेण, व्यतिरेकेण सिध्यति । नित्यस्याव्यतिरेकस्य, कुतो हेतुत्वसम्भवः? ॥१॥" अथैतद्दोषभयादनित्यमिति पक्षाश्रयणं तर्हि तस्य प्रतिक्षणमन्यान्यरूपतया भवनं, ततो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याघातप्रसाः, न च क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितम् । अन्यथ-यदि नियतिरेकरूपा ततस्तनिवन्धननिखिलकार्याणामेकरूपताप्रसङ्गः, न हि कारणभेदमन्तरेण कार्यस्य भेदो भवितुमर्हति, तस्य निर्हेतुकत्वप्रसक्तेः, अथानेकरूपमिति पक्षो, ननु साऽनेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोएपद्यते, न खलु ऊपरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति, 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते'ति वचनप्रामाण्यात्, ततोऽवश्यं तदन्यानि नानारूपाणि विशेषणानि नियतेर्भेदकान्यभ्युपगन्तव्यानि, तेषां च नानारूपाणां विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यतः, यदि नियतेस्तस्याः खत एकरूपत्वात्कथं तन्निबन्धनानां विशेषणानां नानारूपता, अथ विचित्रकार्यान्यधाऽनुपपत्त्या सा विचित्ररूपाऽभ्युपगम्यते, ननु सा विचित्ररूपता विशेषणबाहुल्यसम्पर्कमन्तरेण न घटामञ्चति, ततसत्रापि विशेषणबाहुल्यमभ्युपगन्तव्यं, तेषामपि विशेषणानां भावः किं तत एव नियतेभेवेदुतान्यत इत्यादि तदेवाव - %9 दीप अनुक्रम [१४०] - 4 - 11१३ SUREIGulhinmarana ~ 448~

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514