Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
________________
आगम
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
(४४)
................................... मूल [४७]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४७]]
64682
ईश्वरस्तु सर्वजगत्कतृत्वेन सर्वज्ञत्वेन च नोपलब्धः, ततस्तत्र तथाखमावत्वकल्पनाऽवश्यं पर्यनुयोगमाश्रयते, यदि ज्ञानवायपुनरदृष्टेऽपि तथाखभावता कल्पना पर्यनुयोगानाश्रयाऽभ्युपगम्येत तर्हि सर्वोऽपि वादी तं तं पक्षमाश्रयन् परेण वि- धिकार। क्षोभितस्तत्र तत्र तथास्वभावताकल्पनेन परं निरुत्तरीकृत्य लब्धजयपताक एव भवेत् , उक्तं च-“यत्किञ्चिदात्मा-IN ऽभिमतं विधाय, निरुत्तरस्तत्र कृतः परेण । वस्तुखभावैरिति वाच्यमित्थं, तदोत्तरं स्वाद्विजयी समस्तः ॥१॥" किंच-सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्तितानीति प्राप्तं, तानि |च शास्त्राणि परस्परविरुद्धार्थानि, ततोऽवश्यं कानिचित् सत्यानि कानिचिदसत्यानि, ततः सत्यासत्योपदेशदानात् | कथमसी प्रमाणम् ?, उक्तं च-"शास्त्रान्तराणि सर्वाणि, यदीश्वरविकल्पतः। सत्यान्योपदेशश्च (स्य) प्रमाणं दानतः कथम् ? ॥१॥" अथ न सकलानि शास्त्राणीश्वरेण कारितानि किन्तु सत्यान्येव ततो न कश्चिदोषावकाशः, तर्हि शास्त्रान्तरवदेव नेश्वरेणान्यदपि व्यधायीति हता तब पक्षसिद्धिरिति । अन्यच्च-पारम्भूतं संस्थानादि बुद्धिमत्कारणपूर्वकत्येनोपलब्धं तारग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति, यथा जीर्णदेवकूलकूमादिगतं, न शेष, न हि सन्ध्याऽभ्रमरागवल्मीकादिगतसंस्थानाद्यात्मनो बुद्धिमन्तं कर्तारमनुमापयति, तथाप्रतीतेरभावात , तद्तस्य संस्थानादेर्बुद्धिमत्कारणत्वेन निश्चयाभावात् , तथा भूभूधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्वेन निश्चितमिति कथं तदशादुद्धिमतः कर्तुरनुमानम् ?,अथ मन्येथाः-तदपि संस्थानादि तादग्भूतमेव संस्थानादिशब्दवाच्यत्वात,
दीप अनुक्रम [१४०]
M
~ 444~
Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514