Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 431
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ ४७ ] / गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः भादिकम् । यत्किञ्चिज्जायते लोके, तदसौ कारणं किल ॥ १ ॥ किञ्च कालाहते नैव, मुद्रपक्तिरपीक्ष्यते । स्थाल्यादिसन्निधानेऽपि ततः कालादसौ मता ॥ २॥ कालाभावे च गर्भादि, सर्व स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ॥ ३ ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्त्ति, कालो हि दुरतिक्रमः ॥ ४ ॥” अत्र 'परेष्टहेतुसद्भावमात्रादिति पराभिमतयनिता पुरुषसंयोगादिमात्ररूप हेतुसद्भावमात्रादेव 'तदुद्भवादिति गर्भायुद्भवप्रसङ्गादिति तथा कालः पचति - परिपाकं नयति परिणतिं नयति 'भूतानि' पृथिव्यादीनि तथा कालः संहरति प्रजाः - पूर्वपर्यायात् प्रन्यान्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुतेषु जनेषु जागर्त्ति, काल एव तं तं सुतं जनमापदो रक्षतीति भावः, तस्माद् हि:- स्फुटं दुरतिक्रमः अपाकर्तुमशक्यः काल इति । उक्तैनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरं कालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं तद्यथा अस्ति जीवः खतो नित्य ईश्वरतः, ईश्वरवादिनश्च सर्व जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्य रूपचतुतुष्टयं प्राणिनां स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम् - "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, ४ | सहसिद्धं चतुष्टयम् ॥ १॥ अम्यो (ज्ञो) जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्रश्रमेव वा ॥ २ ॥ इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम 'पुरुष एवेदं सर्वमित्यादि प्रतिपन्नाः । चतुर्थी विकल्पो नियतिवादिनां ते येवमाहुः - नियतिर्नाम तत्त्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैव १० For Par Use Only ~ 430~ क्रियावाद्यधिकारः १३ www.landbrary org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514