Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
________________
आगम
(४४)
प्रत
सूत्रांक
[३९]
+
॥८१॥
दीप
अनुक्रम
[१३०-१३२]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ३९ ] / गाथा ||८१ ||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
श्रीमलय
गिरीया
******
स्से'त्यादि, अक्षरे - अक्षरस्योचारणेऽवगमे वा लब्धिर्यस्य सोऽक्षरलब्धिकः तस्य, अकाराद्याक्षरानुविद्धश्रुतलब्धिसमन्वि तस्येत्यर्थः, लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं शब्दार्थ पर्यालोचनानुसारि शानन्दीवृत्तिःङ्खोऽयमित्याद्यक्षरानुविद्धं ज्ञानमुपजायते इत्यर्थः, नम्बिदं लभ्ध्यक्षरं सब्ज्ञिनामेव पुरुषादीनामुपपद्यते नासज्ज्ञिनामे॥१८८॥ केन्द्रियादीनां तेषामकारादीनां वर्णानामवगमे उच्चारणे वा लब्ध्यसम्भवात्, न हि तेषां परोपदेशश्रवणं सम्भवति येनाकारादिवर्णानामवगमादि भवेत्, अथचैकेन्द्रियादीनामपि लब्ध्यक्षरमिध्यते, तथाहि पार्थिवादीनामपि भावश्रुतमुपवर्ण्यते- 'दवसुंयाभामिवि भावसुयं पत्थिवाईण' मिति वचनप्रामाण्याद्, भावश्रुतं च शब्दार्थ पर्यालोचनानुसारि विज्ञानं, शब्दार्थ पर्यालोचनं चाक्षरमन्तरेण न भवतीति, सत्यमेतत्, किन्तु यद्यपि तेषामेकेन्द्रियादीनां परोपदेशश्रवणासम्भवस्तथापि तेषां तथाविधक्षयोपशमभावतः कश्चिदव्यक्तोऽक्षरलाभो भवति यद्वशादक्षरानुपतं श्रुतज्ञानमुपजायते, इत्थं चैतदङ्गीकर्त्तव्यं, तथाहि-- तेपामप्याहाराद्यभिलाप उपजायते, अभिलापश्च प्रार्थना, सा च यदीदमहं प्राप्नोमि ततो भव्यं भवतीत्याद्यक्षरानुविद्वैव ततस्तेषामपि काविदव्यक्ताक्षरलब्धिरवश्यं प्रतिपत्तव्या, ततस्तेषामपि लब्ध्यक्षरं सम्भवतीति न कश्चिद्दोपः । तथा लब्ध्यक्षरं पोढा, तद्यथा - 'श्रोत्रेन्द्रियलब्ध्यक्षर 'मित्यादि, इह यच्छोत्रेन्द्रियेण शब्दश्रवणे सति शाङ्खोऽयमित्याद्यक्षरानुविद्धं शब्दार्थ पर्यालोचनानुसारि विज्ञानं तच्छ्रोत्रेन्द्रियलब्ध्यक्षर,
१ द्रव्यश्रुताभावेऽपि भावतं पार्थिवादीनाम् ॥
For Park Use Only
~379~
अक्षरा
नक्षरथुतं
यू. ३९
२०
॥१८८॥
२५
Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514