Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 18
________________ सर्गः] विजयदेवमूरि-माहात्म्यम् नव्यो नव्योऽभवत्स्नेहः पुत्रे पित्रोः क्षणे क्षणे । पितृपुत्रदशां वक्तुं नाशक्नोत्कोऽपि पण्डितः ।। अप्रमाणे तथागाधे पुत्रप्रेमसरोवरे । पितरौ रसिकावास्तां हंसाविव निरन्तरम् ॥ ४४ ॥ श्रीमद्वासकुमारस्य दर्शने जनचेतसाम् । इच्छा न घटतेऽक्षीच्छा लभते च श्रमं न हि ॥ ४५ ॥ दिव्यं वासकुमारास्यपद्मं लोका व्यलोकयन् । वरं रूपरसं चैव प्रापिबन् भ्रमरा इव ॥ ४६ एवं वासकुमारजन्मन इमं रम्योत्सवं सोत्सवाः, श्रुत्वा धर्मविधायिनो भविजना धर्मे कुरुध्वं रतिम् । श्रीमद्वासकुमार उत्तमकुलं पुण्याद् यथा चोत्तमाद्, दिव्याः सम्पद आपदापदयुता यूयं यथा प्राप्नुत ॥ इति श्री बहत्खरतरगच्छीय श्रीजिनराजसूरि सन्तानीय पाठक श्रीज्ञान विमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातशाह श्रीअकब्बर प्रदत्तजगद्गुरु-बिरुद. धारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिशाहि श्रीअकब्बरसभासंलब्ध दुर्वादिजयवाद भट्टारक श्री विजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीर प्रदत्तमहातपाविरुधारि श्रीविजयदेवसूरीश्वर गुणवर्णन प्रबन्धे श्रीविजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसरि जन्मोत्सववर्णनो नाम प्रथमः सर्गः ॥१॥ ४३-पितृपुत्रदशां पिता च पुत्रश्च पितृपुत्री तयोर्दशां व्यवस्था पितृपुत्रदशाम् । तत्र पितृदशा नवनवोत्सवकरणभव्यभव्यबहुमूल्यवस्त्रसुवर्णालङ्कारादिवितरणपरमप्रेमधरणलक्षणाम् । पुत्रदशां विविधचाणक्यादिराजनीतिशास्त्राद्यध्ययनविनयशौर्योदार्यसौन्दर्यशौण्डीर्यचातुर्यादिलक्षणामवस्थाम्। कोऽपि पण्डितो वक्तुं न शक्नोत् न समर्थोऽभवत् । ४४ हंसाविति हंसश्च हंसी च इति द्वन्द्वे पुमान् स्त्रिया इत्यनेन सहोक्तौ पुंसः शेषे हंसौ इति सिद्धिः । यथा ब्राह्मणश्च ब्राह्मणी च ब्राह्मणो तथा हंसावित्यपि । ४५-घटचेष्टायां चेष्टा ईहा भ्वादौ घटादिः, घटादीनामनेकार्थत्वाहीहार्थोऽपि घटति(तुरत्र होनार्थो ज्ञेयो न ईहार्थः । ततोऽयमर्थः-न घटते वर्धते इत्यर्थः । ४७-आपदिति आप्नु व्याप्ती लित्वादप्रत्यये प्रथमपुरुषकवचने सिद्धमित्यर्थः । Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120