Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
श्रीवल्लभोपाध्यायविरचित
[ नवमः तस्याः शरीरमेवेद्रो हारमौक्तिकदम्भतः । सुराः स्तनसुरद्रणां क्रीडन्तीवोपरिस्थिताः॥१२१॥ तस्याः शरीरमेर्वद्रौ हारमौक्तिकदभ्भतः । सुराः स्तनासनासीनाः सेवन्ते सेवका इव ॥१२२॥ सिद्धिर्भनोस्थानां सागस्माकं भविता शुभा । अस्याः प्रभावतो दिव्यादिति निश्चित्य चेतसि ॥ तस्याः शरीरमेवेंद्रो हारमौक्तिकदम्भतः । सुराः सूरि नमामेत्यऽनया सह स्थिता इव ॥१२४॥ यत्सौवर्णाङ्गदम्भेन मेरु सेवत एव ताम् । भवान्यदाता दाताहमिति चेतस इच्छया॥१२॥ त्यक्त्वैकेन्द्रियतां पञ्चेन्द्रियतां चेल्लभेयहि । तदा दानं प्रदायाहं प्रभवाणि बहुमदः ॥१२६॥ विचिन्त्येति यदीयाङ्गीभूयमेरुगिरीश्वरः । निषेवत इवाजस्रं सा देवी दीव्यते न कैः॥ युग्मम् कल्याणं नाम मे लोकाः आहुः सप्तसु धातुषु । शकुनादिषु कार्येषु मामकल्याणकं पुनः॥ अतः सार्थ हि कल्याणं दधै नामेति वाञ्छया । तत्सुवर्णांगदभात्तां सुवर्ण श्रयतीव किम् ॥ यत्सेवां सर्वदां पूर्व सुवर्ण सर्वदा व्यधात् । सुवर्णमिति नामातो हेम्नस्तां स्तुत पण्डिता ! ॥ यस्याः स्तनद्वयं वीक्ष्य कविः कामप्रदं सदा । कामकुम्भमिहामुञ्चदिव ब्रह्मेति शङ्कते ॥ विधत्ते न कथं सा हि पश्यतामीहितं नृणाम् । कामदं हृदि या धत्ते कामकुम्भं स्तनद्वयम् ॥
हारादीनामेव प्रवरधारकलक्षणाः, तेषां सुखावहाः सुखकारिण्य इत्यर्थः । पुनः कथं भूताः ? अत एव उत्प्रेक्ष्यन्ते भूषाः भूषा इव । भुत्रश्च भूमयः, उषाश्च रात्रय इति द्वन्द्व भूषाः भूमिरात्रयस्ता इव । यथा भूमयो रात्रयश्च आधेयानां मनुष्यादीनां वराधाराणां च गृहादीनां शुभे सुखावहा भवन्ति तथा भूषा अपि स्वस्त्रसुन्दराकारशोभालक्षणानां आधेयानां वराधाराणां हारादिषु भूषाधारकानां च सुखावहा भवन्ति-इति भावः ।
१२५-एवेत्यव्ययमिवार्थे । मेरुर्यत्सौवर्णाङ्गदम्भेन यस्याः शासनदेव्याः सौवर्णाङ्गमेव सुवर्णमयशरीरमेव दम्भः कपटं तेन यत्सौवर्गाङ्गदेन करणभूतेन तां शासनदेव सेवते एवं श्रयते इवेत्यर्थः । कया अहं अदाता दाता भवामि इति चेतस इच्छया ।
१२९-युग्मम् । उक्तिलेश:-सुवर्ण तां शासनदेवता, तत्सुवर्णाङ्गदम्भात् तस्याः शासनदेव्याः सुवर्णाङ्गदम्भात् हेमवर्णमयशरीरमिषात् श्रयतीव सेवते इव । कया अतः कारणात् , हि निश्चितं साथै कल्याणं नाम दधै बिभराणि इति वाञ्छया, अतः कारणादिति । किं तदाहलोकाः सप्तसु धातुषु मे मम कल्याणं नाम आहुः कथयन्ति । पुनः शकुनादिषु कार्येषु अकल्याणं अकल्याणकारकं आहुः । अतः कारणादित्युक्ति लेशः ।
१३०-उक्तिलेशश्चास्य-भो पण्डिनास्तां शासनदेवतां स्तुत । तामिति का ? यत्सेवा सुवर्ण हेम सर्वदा पूर्व व्यधात् । अतो हेम्नः सुवर्णमिति नाम अभवदिति शेषः । यस्याः शासनदेव्याः सेवा यत्सेवा, ता; कथंभूतां सर्वदा सर्वाभीष्टार्थदायिनीमित्यर्थः ।
Aho I Shrutgyanam

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120