Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 102
________________ द्वादशः सर्गः अथ श्रीफलसदल्ली मल्लीवास्ति विलासिनाम् । श्रीपल्लीसुपुरी पल्लीपुरी भल्लीव पूःस्त्रियाम् । नाथते तु जगन्नाथो जगन्नाथ इवाव्यथः । महीनाथोऽमहीनार्थोपचितश्रेयसां पथः ॥२॥ वसन्तस्तत्र भास्वन्तौ श्रीमहङ्गरभाखरी । भ्रातरौ प्रातरौदार्यात प्रात ईहितमर्थिनाम् ॥३॥ संखवालकुलोल्लासिकमलाकमलापती । अतो विलसतो लक्ष्म्या द्विरूपौ तौ कलानिधी ॥४॥ तौ श्रीमोटिलसत्पुत्रौ जगन्मान्यौ विराजतः । जगन्नाथ-महीनाथमन्त्रिणौ राज्यधारिणौ ॥५॥ भूजानी तौ च भुञ्जानौ भोग्यान् भोगाननेकधा । ___ कुर्वाणौ च सदा धर्मान् आस्तां लोकंपृणोत्तमौ ॥६॥ एकदाऽनेकदातारौ सदादानान्यनेकशः । ददतौ ददतो लोकानन्यान् वीक्ष्येत्यनिन्दताम् ॥७॥ इतीति किं तदाह-सदादानं जना अन्ये ददत्यधिकताकृते । ___ आवाभ्यामावयोः कापि कदाप्यधिकतात्र न ||८|| विचिन्त्यैवं च निश्चिन्त्य चैत्यशङ्गस्य चोपरि । कामकुम्भमिव स्वर्णकुंभ स्थापयतः स्म तौ ।। श्रीकल्याणमयं कुंभ श्रीकल्याणमयं महत् । [अत्र चः पाद पूरणे। प्रस्थाप्य पार्श्वनाथस्य श्रीचैत्यशिखरोपरि ॥२०॥ कुण्डलीमण्डलीराज्यमधुचल्यालिसंचिताः। महाजनान् प्रभोज्यैव प्रदातां रूपकाणि तौ ॥११॥ १-सद्वल्ली कामलता मलोवेति केतकीति भाषाप्रसिद्धेव | श्रीपल्लीसुपुरी श्रीपल्लीव श्रीपल्ली लक्ष्मीग्रामतुल्या इत्यर्थः । सा चासौ सुपुरी चेति श्रीपल्लोसुपुरी । पल्लिस्तु ग्रामके कुट्यां इति हैमानेकार्थः । २-नाथते ऐश्वर्य भुनक्ति-नाथङ उपत्तापैश्वर्याशी:यु चेति हैमधातुपाठः । आत्मेनपदी । अत्र श्रीपल्लोपुर्या इत्यर्थः । अमहीनार्थोपचितश्रेयसां पथः । अमो रोगः स इव अमः क्षयस्तेन हीनः अमहीन अक्षय इत्यर्थः । स चासौ अर्थश्च द्रव्यं तेन उपचितानि पुष्टानि यानि श्रेयांसि अमहीनार्थोपचितश्रेयांसि तेषां पथो मार्गः। पथः अकारान्तोऽपि मार्गपर्यायः । ३-तत्र पल्लीपुर्या भास्वन्तौ दीप्तिमन्तौ अथवा भास्वन्तौ इव भास्वन्तौ सूर्योपमानौ इत्यर्थः । अत्र चकारस्य शेषात; च: पुनः प्रातः प्रभाते औदार्यात् अर्थिनां ईहित्तं वाञ्छितं प्रातः पूरयतः सूर्यायप्येवं सूर्योऽपि प्रातः औदार्यात् महत्त्वात उदयानन्तरं अत्यंततेजस्वित्वात् अर्थिनां ईहितं प्रातः । ११-रूपकाणि परोिजाति भाषामसिद्धानि नाणकानि । ती डूंगरभाषरौ भ्रातरौ । ૧૨ Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120