Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[नवमः अथवा-जग्मुः कल्पद्रवः स्वर्गे लोकैः सन्तापिता भृशम् । तेजपालस्तु कल्पद्रुरेकोऽस्तीहितदायकः।। अथवा-सर्वे कल्पद्रवो नेशुः भिन्नभिनेप्सितमदाः। तेजपालोऽस्ति कल्पद्रुरेकोऽनेकेप्सितपदः ॥ अथवा-तेजपालस्य दानानि साधुयोग्यानि नो नहि । एकोऽनेकेप्सितप्राता तेजपालो वयं नहि ॥ इति कल्पद्रुमाः सर्वे विमृश्य स्वाहदि स्वयम् । लजयेव गताः स्वर्गे लज्जितो याति यन्न किम् ॥ ऊकेशवंशविख्यातो दौसिकान्वयदीपकः (अथवा-उपकेशाभिधे वंशे दोसीवंशपदीपकः)।
योधो भोजस्तयेत्याद्या वसन्तीभ्याः परेऽपि च ॥२४॥ विजयदेवसूरीन्द्रस्तपागच्छाधिनायकः । श्रीमद्विजयसिंहाव्यमूरिसेवितपत्कजः ॥२४४॥ आगतः स्वागतं कुर्वन् जन्तुजातस्य सम्पति । रम्योपशिवपुर्यत्र तेजपालोऽशणोदिति ॥२४॥ तेजपालस्ततस्तुष्ट्वा भूत्वा पुलकिताङ्गकः । कृत्वैकत्रोत्सवात्सङ्घप्रास्थामूर्ति विवदिषुः ॥२४६॥ यत्र स्तस्तत्र तो सूरी गत्वा नना च भक्तितः। अग्रतो विनयादस्थाद्धर्म श्रोतुंमना हि सः॥२४७॥ शघुञ्जयार्बुदाद्रयादितीर्थयात्रां हि ये नराः । कुर्वन्ति कारयन्त्यन्यान् लभन्ते ते नराः शिवम् ।। श्रुत्वोपदेशमीदृशं भट्टारकनिरूपितम् । तीर्थयात्राफलं ज्ञात्वा तेजपालोऽभ्यधादिति ॥२४९॥ अर्बुदाचलतीर्थस्थान विधिनाचिचिषाम्यहम् । विवन्दिपामि च श्रीमदादिदेवादिकार्हतः॥२५०॥ भवता दीव्यताचार्यवर्योपाध्यायसाधुभिः । महता च श्रीसङ्घन तथान्यैश्च समन्वितः ।२५१ युग्मम् ओमाहेति ततः सूरिस्तेजपालाभिधास्तिकम् । इच्छाप्तौ स्याद्यतो हर्षः सोऽतोऽतोतुष्यतोत्तमः॥
(-सोऽतोऽतोतुष्यत प्रेयान् इच्छासिद्धिर्न किं मुदा-इति वा पाठः) प्रत्यर्बुदाचलं तीर्थ तेजपालस्ततोऽचलत् । प्रत्यहं वन्दमानोऽमा समायान्तं गणाधिपम् ॥२५३॥
(-समायान्तं तपापतिम्-इति वा पाठः) सुदिनाहे समारोहत् श्रीसूरिः श्रावकच सः । अर्बुदाचलसत्तीर्थमनत्तस्मिंश्चतीर्थपान् ।।२५४॥ द्रव्यतस्तेजपालोऽयं श्रीजिनेन्द्रानपूजयत् । कश्मीरजन्म-कर्पूर-कस्तूरी-चन्दनादिभिः॥ अभ्यष्टौद् भावतः मूरिः श्लोकः काव्यैश्च भावदैः । यथामति यथाधीतमन्येऽपि व्यदधन् स्तुतिम्।। द्रव्याण्यव्यययेच्छ्योबुद्धया तत्र स आस्तिकः । एकेन्द्रियादिजीवानां दयां सुरिरपालयत् ।। अदाद्रप्याणि स श्राद्धः श्राद्धानां पाणिपङ्कजे । मूरिमूर्द्धसु साधूनां वासे श्रीपदवृद्धये ॥२५८॥ अर्बुदाचलसत्तीर्थयात्रायाः परमोत्सवः । पावर्ततोभयोरेवं मूरिश्राक्कयोमहान् ।। २५९ ॥ तत उत्तीर्य संतीय दुरिताधि च दुस्तरम् । अर्बुदाचलसत्तीर्थात् सुकृतात्सुकृतोडुपात् ॥२६॥ विजयदेवसूरीन्द्रो विजयसिंहमूरियुक । अस्थादुपत्यकाग्रामे तेजपालोऽपि संघयुका२६१।युग्मम्
२४५--शिवपुर्याः समीपं उपशिक पुरि । विभक्तिसमीपेऽर्थेऽव्ययीभावः । रम्यं च तत् उपशिवपुरि च रम्योपशिवपुरि तस्मिन रम्योपशिवपुरि ।
२५३-तपापति तपागच्छनायकं श्रीविजयदेवमूरिम् ।
Aho I Shrutgyanam

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120