Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 80
________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् अभूवन् जसवन्तस्य पुत्रा एते षडुत्तमाः । षण्मुखमुखाकारा विराजन्ते जयोदयाः ॥२१॥ सामलः १ सुरताणश्च २, श्रीसहस्रमल्लो ३ ऽपि च । वा ४ पाचा ५ तथा पत्ता ६ नामतश्च यथाक्रमम् ॥२१९॥ युग्मम् । अविषादः सदा सादाः शोभाः शोभाधनाश्रयः । जगस्तृतीय आभान्ति जयराजमुता अमी॥ श्रीमज्जेसाभिधस्याथ तृतीयस्तनयोऽवति । मत्येषु जयमल्लोऽयं जयमल्लमतल्लिका ।।२२१॥ श्रीमन्नयनसिंहाख्यः सुन्दरः मुन्दरो नृणाम् । आसा नरहरः सन्ति जयमल्लसुता इमे ॥२२२॥ एभिः पुत्रैः शुभैर्दीप्तो भ्रातृव्यैश्च पुरोदितैः। युतोऽन्यपरिवारेण जयमल्लोऽत्र शोभते ॥२२३॥ राजसिंहमहाराजः प्रसन्नहृदयोऽन्यदा । श्रीसुवर्णगिरे राज्येऽभ्यषिश्चज्जयमल्लकम् ॥२२४॥ तत्रान्यत्र ततो धात्र्यां सर्वत्र मरुमण्डले । एवं क्रमेण साम्राज्यश्रियमीष्टे स भाग्यवान् ॥ कुमारपालभूपाल इव स व्यलसत् श्रियः । दानेन जिनधर्मण दययाऽद्भुतया भृशम् ॥२२६॥ श्रीमत्सुवर्णगिर्यादिद्रङ्गशत्रुञ्जयादिषु । चैत्योद्धारविधानेन यात्रया च प्रतिष्ठया ॥२२७॥ युग्मम् । एवमेतानि वाक्यानि कुर्वन् षडपि सम्पति । योभुज्यते स साम्राज्यं जयमल्लश्च वर्तते ॥२२८॥ आह्वयजयमल्लोऽयं विवंदिपुरथाऽन्यदा । विजयदेवसूरीन्द्रं श्रीमदीडरपत्तनात् ॥२२९॥ विजयदेवसूरीन्द्रस्तदाहूतस्ततोऽचलत् । विजयसिंहमूरीशसंयुतः समहोत्सवः ॥२३०॥ विहरन्तौ क्रमात्सूरी गुरुशिष्यसुखप्रदौ । श्रीमच्छिवपुरीपार्थे समाजग्मतुरुत्सवात् ॥२३॥ आसीदवसरेऽथास्मिन् पुंजा पुंजातिपुङ्गवः । प्राग्वाटान्वयसत्पद्मप्रकासनदिवाकरः ॥२३२॥ तेजपालः सुतस्तस्य सत्पुत्रैखिभिरन्वितः । वस्तुपाल-वर्धमान-धर्मदासविलासिभिः ॥२३॥ वसतिप्रिय ऋद्धीनां जनानां स्वामिनामपि । श्रीमच्छिवपुरीनाम्नि नगरे नगरोत्तरे ॥२३४॥ -त्रिभिर्विशेषकम् । अर्बुदाचलसत्तीर्थेऽभवत्मासादकारकः । श्रावको विमलो नाम विमलो विमलैगुणः॥२३५॥ चतुरिजिनामारकारको मारिवारकः । अभूद् राणपुरे ख्यातो धरणो धरणो नृणाम् ॥ इत्यादीनां प्रसिद्धानां श्राद्धानामतुलां तुलाम् । तेजपालो दधानोऽयं विधत्ते मुकृतं सदा॥ -त्रिभिर्विशेषकम् । यस्य दानपराभूता जग्मुः कल्पद्रवो दिवि । तेजपालस्तु कल्पद्रुर्भाति वाञ्छितदो भुवि ॥२३८॥ २२५-तत्र सुवर्णगिरौ अन्यत्र स्थिराद-सत्यपुरादिषु । ततस्तदनन्तरं धात्र्यां भूमौ सर्वत्र मरुमण्डले साम्राज्याश्रय इत्यत्र अधीगर्थदयेशामिति केवलं सम्बन्धत्वेन विवक्षिते कर्मणि षष्ठी, सम्बन्धस्य अविवक्षयां; विवक्षिते च कर्मणि द्वितीयाबहुवचनं वा। Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120