Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 74
________________ सर्गः विजयदेवसूरि-माहात्म्यम् अन्यस्त्रीरूपसर्वस्वपराजयविधानतः । तस्या जयावहौ भात आनकाविव सुस्तनौ ॥१३॥ जयस्तम्भाविव न्यस्तौ स्तनौ तस्या बनोन्नतौ । वीक्ष्यैवं पाण्डिताः प्राहुः सर्वस्त्रीरूपलोपनात् ॥ देवीरूपं दधाना किं कामधेनुरियं किल । द्रष्टार इति शंसन्ति यतः कामदुधानवा ॥१३॥ सुरूपं चारुनेपथ्यं मनोमोहनयौवनम् । तस्या दृष्ट्वा जनाः स्वीयं किं त्यजन्ति न यौवनम् ॥ इन्द्रादयो हि ये देवा ऋद्धिमन्तस्तदीश्वराः । ते वशवर्तिनो यस्याः सा मोहयति किं न नृन् । यस्या अत्यद्भुता दृष्टिविकृता विकृतान्नरान् । निहन्त्यर्जुनयन्त्रेषुरिव सा रातु वाञ्छितम् ॥ गच्छन्ति सम्मुख वीक्ष्य तां मर्त्या उन्नतस्तनीम् । त्यक्त्वा स्त्री पद्मिनीरुञ्चगुच्छां वल्लीमिवाऽलिनः ॥१३९॥ १३६-द्वितीयं यौवनपदं युवीवृन्दवाचकम् । १३८-सा शासनदेवता वाञ्छितं रातु-ददातु । सा का ? यस्या दृष्टिर्यस्था नेत्रं निहन्ति मारयति । कान् ? नरान् । कथंभूतान् ? विकृता द्वेषकामादिना विकारं प्राप्ताः शत्रवः कामिनो वा । आविकृता द्वेषकामादिका विकारं न प्राप्ता योगिन इत्यर्थः । ततः कर्मधारये विकृताविकृतास्तान् । कर्थभूता दृष्टिरत्यद्भुता । का इव ? अर्जुनयन्त्रेषुरिव । यन्त्रेण मुक्ता इषुर्यन्त्रेषुः । मध्यपदलोपीसमासः [ अर्जुनस्य यन्त्रेषु अर्जुनयन्त्रेषुः सा इव ! यथा अर्जुनस्य यन्त्रेषुः शत्रून् हन्ति विफली न भवति तथा शासनदेवीदष्टिरपि द्वेषकामादिना विकृतान्नरान्निति द्वेषकामादिनाऽविकृतान्नरान् ब्रह्मचर्यादिव्रतपालनधैर्यभ्रंशात् निहन्ति-नितरां हन्ति न विफली भवति । अत्र यस्या इत्युपमेयस्य अर्जुन इति भिन्नलिङ्गोपमानं 'क्वापि भिन्नलिङ्गं तु मेनिरे' इति वाग्भटवचनात् । दृष्टरुपमानं यन्त्रेषुरिति । इषुशब्दः शरपर्यायः त्रिलिङ्गः शाकटायनमते, अमरस्तु इषुयोरिति पुंखियोगह । अतोऽत्र स्त्रीलिङ्ग एव इषुशब्दो व्याख्येयः । चतुर्विधानि आयुधानि मुक्ताऽमुक्तादिभेदात् । यदाह हलायुधः-" मुक्तामुक्त-१ ममुक्तं २ करमुक्तं ३ यन्त्रमुक्तं च ४ ॥ शक्त्यादिपाणिमुक्तं स्यादमुक्तं क्षुरिकादिकम् । मुक्कामुक्तं च यष्ट्यादि यन्त्रमुक्तं शरादिकम् । " इति । अतोऽत्र यन्त्रेषुरिति धनुर्मुक्तबाण इति युक्तोऽर्थः । १३९-गच्छन्तीति व्याख्या:-मया नरास्तां शासनदेवतां वीक्ष्य सम्मुखं गच्छन्ति । कथंभूतां ताम? उन्नतस्तनी-उन्नती उच्चौ स्तनौ यस्याः सा उन्नतस्तनी ताम् । स्वाङ्गासोपसर्जनादसंयोगोपधादितिवैकल्पिको ङीष् । वैकल्पिकङीषाभावे उन्नतस्तनाम् । किं कृत्वा स्त्रीः अर्थात स्वकीयपरिणीतस्त्रीस्त्यक्त्वा । अत्रोपमानमाह के इत्र, वल्ली अलिन इव भ्रमरा इव । यथा भ्रमरा वल्ली सन्मुखं यान्ति तथा । इवोऽत्र भिन्नक्रमे, उद्वाहुरिव वामन इतिवत् । किं कृत्वा पनि नीस्त्यक्त्वा । कथंभृतां वल्लीम ? उच्चगुच्छां-उच्चा गुच्छाः कुसुमानां यस्यां सा नथा ताम | Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120