________________
सर्गः]
विजयदेवमूरि-माहात्म्यम् नव्यो नव्योऽभवत्स्नेहः पुत्रे पित्रोः क्षणे क्षणे । पितृपुत्रदशां वक्तुं नाशक्नोत्कोऽपि पण्डितः ।। अप्रमाणे तथागाधे पुत्रप्रेमसरोवरे । पितरौ रसिकावास्तां हंसाविव निरन्तरम् ॥ ४४ ॥ श्रीमद्वासकुमारस्य दर्शने जनचेतसाम् । इच्छा न घटतेऽक्षीच्छा लभते च श्रमं न हि ॥ ४५ ॥ दिव्यं वासकुमारास्यपद्मं लोका व्यलोकयन् । वरं रूपरसं चैव प्रापिबन् भ्रमरा इव ॥ ४६
एवं वासकुमारजन्मन इमं रम्योत्सवं सोत्सवाः, श्रुत्वा धर्मविधायिनो भविजना धर्मे कुरुध्वं रतिम् । श्रीमद्वासकुमार उत्तमकुलं पुण्याद् यथा चोत्तमाद्,
दिव्याः सम्पद आपदापदयुता यूयं यथा प्राप्नुत ॥ इति श्री बहत्खरतरगच्छीय श्रीजिनराजसूरि सन्तानीय पाठक श्रीज्ञान विमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातशाह श्रीअकब्बर प्रदत्तजगद्गुरु-बिरुद. धारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिशाहि श्रीअकब्बरसभासंलब्ध दुर्वादिजयवाद भट्टारक श्री विजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीर प्रदत्तमहातपाविरुधारि श्रीविजयदेवसूरीश्वर गुणवर्णन प्रबन्धे श्रीविजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसरि जन्मोत्सववर्णनो नाम प्रथमः सर्गः ॥१॥
४३-पितृपुत्रदशां पिता च पुत्रश्च पितृपुत्री तयोर्दशां व्यवस्था पितृपुत्रदशाम् । तत्र पितृदशा नवनवोत्सवकरणभव्यभव्यबहुमूल्यवस्त्रसुवर्णालङ्कारादिवितरणपरमप्रेमधरणलक्षणाम् । पुत्रदशां विविधचाणक्यादिराजनीतिशास्त्राद्यध्ययनविनयशौर्योदार्यसौन्दर्यशौण्डीर्यचातुर्यादिलक्षणामवस्थाम्। कोऽपि पण्डितो वक्तुं न शक्नोत् न समर्थोऽभवत् ।
४४ हंसाविति हंसश्च हंसी च इति द्वन्द्वे पुमान् स्त्रिया इत्यनेन सहोक्तौ पुंसः शेषे हंसौ इति सिद्धिः । यथा ब्राह्मणश्च ब्राह्मणी च ब्राह्मणो तथा हंसावित्यपि ।
४५-घटचेष्टायां चेष्टा ईहा भ्वादौ घटादिः, घटादीनामनेकार्थत्वाहीहार्थोऽपि घटति(तुरत्र होनार्थो ज्ञेयो न ईहार्थः । ततोऽयमर्थः-न घटते वर्धते इत्यर्थः ।
४७-आपदिति आप्नु व्याप्ती लित्वादप्रत्यये प्रथमपुरुषकवचने सिद्धमित्यर्थः ।
Ahol Shrutgyanam