________________
श्रीवल्लभोपाध्यायविरचितं
द्वितीयः
द्वितीयः सर्गः
अथ वासकुमारस्तद् भोगाई पाप यौवनम् । यस्मिंस्त्यजति सच्छीलमर्यादां मौनयौवनम् ।। मोमुह्यन्ते जना भोगे संसारारण्यचारिणः । यल्लब्धांभसि मोहेन मृगतृष्णां मृगा इव ॥२॥ दुष्करं सुकरं कर्म मुकरं च तृणोपमम् । यल्लम्चा देयमत्तोऽपि मयोऽतिमदमत्तवत् ॥३॥ इन्द्रियाणि सुरम्याणि विकसन्ति दिने दिने । यस्मिन् सूर्योदये किं न पद्मानीव सुखाय तत् ॥४॥ ईदृशं यौवनं प्राप्तो जयदत्त इवाबभौ । श्रीमान् वासकुमारः स रूपवद् रूपमेव यः ॥ ५॥ अथ पुण्यात्मने तस्मै महान्तो व्यवहारिणः । ददुः कन्या जगन्मान्या लावण्यादिगुणैः शुभैः॥ तथाप्येकस्य सभ्यस्य महेभ्यस्य यशस्विनः । कन्यामनन्यसौजन्यलावण्यां पुण्ययौवनाम् ॥७॥ दृष्ट्वा प्रीतावभूतां तत् पितरौ तद्गुणेरितौ । विज्ञायात्मीयपुत्रस्य योग्यां सौभाग्यसम्पदम्॥८॥ विवाहयितु कामौ तौ तां च तत्पितराविति । अयाचेतामिमां कन्यां दत्तमस्मत्सुताय हि ॥९॥ तदा च पितरौ तस्या अब्रूतां विनयादिति । अनयोरस्तु वीवाहः उभयेषां सुखावहः ॥१०॥ श्रुत्वेतीत्वं स्थिरः श्रेष्ठी वचः कन्यापितुः शुचि । आननन्द हृदानन्ददायी पाणिग्रहो न किम् ॥ एवं वीवाहसद्वार्ता व्यदधातां परस्परम् । प्रेमतो जातरोमाञ्चौ पितरौ पुत्रकन्ययोः ॥१२॥ स्वयं वासकुमारोऽथ प्रत्यबुध्यत सन्मतिः । प्रत्येकबुद्धवच्छुद्धसिद्धान्तोदितधर्मवित् ॥ १३ ॥
१-मानं च मुनिसमूहः यौवनं च युवतीनां समूह इति समाहारद्वन्द्वे मौनयौवनम् , रुषीणां समूहो युवतीनां समूहश्च यस्मिन् यौवने वयसि सच्छीलमर्यादां त्यजति । मुनीनां समूहो वृन्दं मौनं यौवनमिति चन्द्राचार्याद्यभिप्रायेण; वस्तुतस्तु तद्वितप्रत्ययोत्पत्तेः प्रागेव पुंवद्भावेन भवितव्यम् ; ततो युवतीनां समूहो यौवनं भिक्षादेरित्यणि जामिश्चणिनद्वितयत्वरे इति पुंवद्भावेतीति वर्णलोपे यौवनं चतुर्थवर्गपञ्चमांतोयम् । यत उक्तवान् भाष्यकार:-भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् । प्रत्ययविधाविति यथा-'सुरूपमत्तिनेपथ्यं, कलाकुशलयौवनम् । यस्य पुण्यकृतः प्रैष्यं, सफलं तस्य गौवनम् ।।' इति ।
५-रूपवत् मनुष्याकारधारि रूपमेव सौन्दर्यमेव !
८-वपितरौ वासकुमारस्य मातरपितरौ तद्गुणेरितो तस्याः कन्यायाः गुणा सौजन्यादयस्तैरीरितौ प्रेरिती यौ तौ तद्गणेरितौ ।
९-तौ श्रीवासकुमारस्य पितरौ कर्तृपदमेतत् , तत्पितरौ तस्याः कन्यायाः पितरौ तपितरौ तौ तथा कर्मपदमिदं तां कन्यां इति अयाचेतां याचतिर्धातुर्दिकर्मकः इतीति किं इमां कन्यामस्मत्सुताय दत्तम् । त्रिभिर्विशेषकम ।
Ahol Shrutgyanam