________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् धर्मात्पाति नरो राज्यं छत्रं शिरसि सन्धरन् । पापात्तस्य भवेद्दासो धावस्तद्वाजिनः पुरः॥ संपद्यन्ते मदोन्मत्ता हस्तिनश्च महाहयाः । धर्मात्पापाच जायन्ते तद्रजोहारिणो नराः ॥ १५ धर्माद्धनानि भूयांसि सेवकांश्च सुखावहान् । नरा मन्दिरमध्यस्था लभन्ते खेदवर्जिताः ॥१६ देशान्तरे भ्रमन्तोऽपि न लभन्ते धनांशकम् । पुरुषाः पौरुषं भूरि कुर्वन्तः पापतः सदा ॥१७ धर्मादेवो नरश्चैव जायते रोगवर्जितः । पापात्तिर्यङ् सदा दुःखी नरके शोकसंयुतः॥१८॥ धर्माधौं क्षयं नीत्वा हत्वा कर्माष्टकं तथा । अपवर्गमेवाभोलि मानवो निरुपद्रवः ॥ १९ ॥ इति चेतसि निश्चिन्य धर्माधर्मफलद्वयम् । परित्यज्याशुभं पापं कुर्या धर्म शुभं सदा ॥२०॥ दानं शील तपश्चैव भावना च भवापही । मुख्या धर्मस्य चत्वारः प्रकारास्तीर्थकुन्मताः ।।२१ कुर्यामेतान् विशेषेण विशेषसुखदायकान् । यथा लभेय सत्सर्गापवर्गानन्दसम्पदः ॥२२॥ दानं ददेय सानन्दो बहुधर्षिभ्य आदरात् । पालयेयं सदा शीलं सुशीलो लीलयान्वितः ।। व्यपोहति कृतं पापं दुर्गतिं यच्च लुम्पति । ददाति सम्पदः सर्वा विदध्यां तत्तपोऽप्यहम् ॥२४॥ कुर्वतस्विविध धर्ममिममहत्मरूपितम् । भावयेयमिमे धन्या नरा इति च चेतसि ॥ २५॥ विचिन्त्येत्यात्मनचित्ते तदा वासकुमारकः। नाभ्यमन्यत कन्याया विवाहं विषयी न यत् ॥२६॥ वैराग्यरङ्गमापन्नस्तन्नटो धर्मताण्डवम् । चिकीर्षुः पूर्वतो दानपूर्वरङ्ग व्यधात्तदा ॥२७॥ अथ पुत्रं पिता पाह-पुत्रास्मत्पीतिहेतवे । विधेहि सन्ततेवृद्धचै कन्यावीवाहमुत्सवान् ॥२८॥ सन्ततिः परमो धर्मो गृहस्थानां विशेषतः । यतस्सा कथिता पूर्वः पूर्वेषां पावनक्षमा ॥२९॥ त्रयोविंशतिरहन्तः परिणीतवरस्त्रियः । संजातानेकपुत्राश्च प्रान्ते प्रापुः शिवश्रियम् ॥ ३०॥ वर्धमानजिनः पूर्व विजहारतरां निशि । प्रागदीक्षितसच्छिध्यः शिष्यसन्ततिहेतवे ॥३१॥ एवं त्वमपि पुण्यात्मन् परिणीय वरस्त्रियम् । भुक्ष्व भोगान् नृणां योग्यान् ततोनु त्वं परिव्रजेः ।।
२३-ददि दाने भ्वादिरात्मनेपदी विधिनिमन्त्रणेति लिङि उत्तमपुरुषैकवचनम् । ददीयेति पाठे डुदा दाने अदादौ जुहोत्यादिरुभयपदी तत आत्मने पदे लिङि उत्तमपुरुषकवचनम् ।
२७-तदः तन्नटो धर्मताण्डवं चिकीर्षुः पूर्वतो दानपूर्वरङ्गं व्यधात् इत्यन्वयः । स एव वासकुमार एव गटस्तन्नटः, धर्म एव ताण्डवं नर्तनं धर्मताण्डवं चिकीर्षुः पूर्वतः प्रथमतः दानपूर्वरङ्गं दानमेव पूर्वरङ्गः-गीत ? नृत्य २ वाद्यानां ३ त्रयाणां प्रारम्भः दानपूर्वरङ्गस्त व्यधात् अकरोत् । कथंभूतः सन् तन्नट:-वैराग्यरङ्गं वैराग्यमेव रजो नाट्यस्थानं वैराग्यरङ्गस्तं आपन्नः प्राप्तस्सन् । यथा नटो नाट्यस्थानं लब्ध्वा नर्तनं चिकीर्षुः प्रथमतः गीत १ नृत्य २ वाद्यानि ३ त्रीणि प्रारभते तथा वासकुमारोऽपि वैराग्यरङ्गं प्राप्तो धर्म चिकीर्षुः दानमादितो ददौ इत्यर्थः।
Aho I Shrutgyanam