________________
श्रीवल्लभोपाध्यायविरचित
द्वितीयः वचोभिर्विविधैरेवं प्रोक्तैः पित्रातिरागतः । नाभ्यमन्यन वीवाहं स कुमारः कुमारवत् ॥ ३३ ॥ एवं मात्रादिभिलोंकैर्वन्धुभिस्स निवेदितः। नाङ्गीचकार वीवाहं शीलवतधृतिर्यतः ॥ ३४॥ लक्ष्मी यशः प्रतापं च माहात्म्यं चाप्यरोगताम् । नरःप्रामोति शीलस्य प्रभावाद्वाञ्छितं यथा ॥ शीलप्रभावतो हेला सकलात्र टलेद्भुवि । उत्पद्येत सदा सौख्यं दुःखमात्रं कदापि न ॥ ३६॥ पालयेदमलं शीलं यो नरः शीलपालकः। वशीभवन्ति तस्याशु देवाः सर्वे च मानवाः ॥ ३७॥ अनेके सन्ति दातारो ऽनेके सत्पुरुषा अपि । तपस्विनोऽप्यनेके च न कश्चित् शीलपालकः ।। तपस्विनो महान्तोऽत्र लोके द्वैपायनादयः । श्रूयन्ते तेऽपि च भ्रष्टाः शीलतः कीलिता इव ॥ दानतस्तपसोऽप्युग्रात् भावनायाश्च धर्मतः । ज्ञात्वा सुदुष्करं शीलं यतध्वं तत्र पण्डिताः ॥४०॥ ब्रह्मचर्यव्रते सम्यक् पालिते पालितानि यत् । शेषव्रतानि चत्वारि महान्ति यतिनामपि ॥ महाव्रतानि पञ्चैव पालनीयानि यत्नतः । स्वर्गापवर्गसौख्यानां दायकानि यतः किल ॥४२॥ चारित्रग्रहणात्तानि पालयेयुर्मुमुक्षवः । मनोवचाकायशुद्धया विनातीचारसंचरम् ॥ ४३ ॥ विचिन्त्येति च निश्चित्य स्वचित्ते शीलपालनम् । अङ्गीचकार चारित्रग्रहणं स कुमारकः॥४४॥ पित्रोरग्रे ब्रवीतिस्म विनयात्समुदैकदा । यद्याज्ञा भवतोम स्याद् गृह्णीयां चरणं तदा ॥ ४५ ॥ पुत्ररत्न किमीदृक्षमिदं वदसि कद्वद । बाल्ये क्यसि चारित्रग्रहणं युज्यते कथम् ॥ ४६॥ दुःखरक्ष्योदिता दीक्षा मुमुक्षूणां जिनेश्वरैः । सा ग्राह्या वार्धके प्रान्ते भुक्तभोगैर्नृभिः खलु ॥ क्षुत्पिपासादयो यस्यां द्वाविंशति परीषहाः। यादृशैस्तादृशैः पुंभिस्सहनीया न दुस्सहाः॥४८॥ क्षमः सोढुं कथं त्वं तान् कथं तांश्च सहिष्यसि । बाललीलाकलाशीली यतः कोमलपुद्गलः ॥ अभुक्तभोगसंभोगं कन्दर्पो दर्पतो नरम् । दुष्करे रक्षितुं शीलं यौवने व्यथते तराम् ॥५०॥ अतो भोगान नरै ग्यान् नरयोग्यान् सुरेप्सितान्। विलासिन्या सहाजस्रं विलसालससत्कलम् ॥ सुकृतोपार्जिताः प्राप्ता इमा लक्ष्म्यो मनीषिताः। अनेके सेवका एते तत्कालाजाविधायकाः॥ सप्तभूममिमं दिव्यं मन्दिरं स्वर्गृहोपमम् । भाण्डागारमिदं सर्व धान्यागाराण्यमूनि च ॥५३॥ सर्वाण्येतानि विद्यन्ते तव पुत्रोत्तमालये। एतदर्थे पुमांसोऽन्ये क्लिश्यन्तो नाप्नुवंति हि ॥ ५४॥ धनोपार्जनचिन्तापि कश्चनापि निवारकः । शरीरे रोगचिन्तापि नास्ति पुण्यात्पुराकृतात् ॥ इमे हि विविधा अश्वा इमे उष्ट्रा इमे रथाः। बलवन्तो बलीवर्दा इमे सन्ति पुरस्तव ॥५६॥
३३-स कुमार वासकुमारो वीवाहं नाभ्यमन्यत । किंवत् ? कुमारवत्-स्वामि कार्तिकेयवत् । स्वामिकार्तिकेयो हि न परिणीतवान् इति प्रासद्धिः। अथवा कुमारवत् बालकवत् ; यथा बालको हठात् सदसदपि किञ्चिद्वस्तु स्वस्य हितमहितं वा मनीषितमेव मन्यते न तदन्यदिति । तथा वासकुमारोऽपि स्वस्थानीप्सितमहितं संसारिणामीप्सितं हितं धीवाहं न मन्यत इत्यर्थः ।
Ahol Shrutgyanam