________________
सर्गः
विजयदेवसूरि-माहात्म्यम् खलूरिकायां त्वं पुत्र तेषामक पराग्भ्रमः। रमस्व खुरली कुर्वन् सवयः सखिभिः सह ॥५७॥ पश्यन्तस्त्वां तदा लोकास्त्वदालोकनलोचनाः कोऽयं राजकुमारोऽयं मणिष्यन्ति मिथोन्विति। इति प्रेमवचोऽवोचत् पिता पुत्र तथापि हि । न व्यरंसीत्स चारित्राचारित्रैकवृतिर्यतः ॥५९॥ इत्यादिवचनैः पुत्रं प्रतिबोधयितुं पिता । करग्रहे क्षमा नाभूद्दक्षोऽपीन्दुरिवाम्बुजम् ॥ ६॥ दृढधर्मा प्रियधर्मानन्तशब्दद्वयीति यत् । सिद्धा व्याकरणे शद्वादर्थाचास्मिन् शिशौ स्थिता ॥ जगदुः कवयो लोका नागराः इति सुनृतम् । दृढधर्मा पुमानेष प्रियधर्मा तथा तदा ।। ६२ ॥ मोक्तः संसारसौख्यार्थमिति पित्रादिभिर्जनैः । संसारं त्यक्तुकामः स नाभ्यमन्यत तद्वचः ॥ एवं च पितरौ ज्ञात्वा चारित्रग्रहणे दृढम् । चेतः पुत्रस्य तच्चेतःप्रीतये वदतामिति ॥ ६४ ॥ चारित्रग्रहणे पित्रोरनुज्ञास्ति तवाधुना । सगौत्रादिपरीवारयुक्तयोरावयोरथ ॥६५॥ अददातामथैवं तौ शिक्षा गद्गदया गिरा । दीक्षामादाय पुत्र त्वं साध्वाचारान् समाचरेः ॥६६॥ भणेथाः प्रवणीभूय ग्रन्थान् व्याकरणादिकान् । सिद्धान्तान् ज्यातिषग्रन्थान् तर्कग्रन्थांश्च भूयसः।। विनयेः प्रणयेः प्रीतो निर्णयेः पुत्र चेतसा । गुरोः पृष्ठं परैः प्रोक्तं सूतृतं वेति वानृतम् ॥६८॥ स्मरेन्थान् पुराधीतान् सूत्रतश्च तथार्थतः। विस्मृतं स्मारयेरन्यान् पठितं पाठयेः सुत ॥ पञ्चेन्द्रियाणि संयम्य नियम्य विषयान् पुनः । संयम पालयेः पुत्र स्वकीयसुखहेतवे ॥ ७० ॥ गोपयित्वा प्रवर्तेथाः सर्वथेन्द्रियपञ्चकम् । पुत्र कूर्म इव ग्रीवाचतुश्वरणपञ्चकम् ॥७१ ॥ भवेनिरुपलेपस्त्वं कर्मलेपेन सर्वदा । पयःकर्दमलेपेन पद्मपत्रमिवाङ्गज ॥७२॥ ग्रामद्रङ्गकुलादीनि नालम्बेथाः कदापि हि । स्तम्भादीनि त्वमाकाशमिव लोकप्रकाशक ॥ सौम्यलेश्यां दधीथास्त्वं चन्द्रमा इव सर्वदा। आदित्य इव तेजस्वी स्यास्तपस्तेजसाअसा ॥ उत्पन्ने सुखदुःखादी समचित्तो भवे भवेः। वयंगांभीर्यसंयुक्तः समुद्र इव सर्वदा ॥ ७५ ॥
५७-हे पुत्र ! खलूरिकायां चउगान इति भाषाप्रसिद्धायां श्रमसाधनाभूमौ तेषामश्वादीनामाक् पराग भ्रमे 'उरहापरहा फेरवानइ विषई' इति भाषाप्रसिद्ध खुरली अभ्यासं कुर्वन् रमस्व ।
५८-तदा खलूरिकायां अश्वादीनां अवाक्पराग भ्रमणाभ्यासकाले लोकास्त्वां पश्यन्तो नु वितर्के इति मिथो भणिष्यन्ति । इतीति किम् ? एकः कथयति-कोऽयम् ? अपर आह-राजकुमारोऽयम् ।
६८-भो पुत्र ! गुरोः विनयेः विनयं कुर्या इत्यर्थ । भो पुत्र ! प्रणयः कथयोरत्यर्थः । भो पुत्र ! पैररन्यैर्गच्छवासिभिः साधुभिः परगच्छवामिभि: साधुभिः अन्यतीर्थिभिः प्रतिवादिभिर्वा प्रोक्तं कथितं सूनृतं सत्यं वा अनृतमसत्यं वा इति निर्णयः निर्णयं कुर्या इत्यर्थः । कथं भूतस्त्वं ? चेतसा प्रतिः ।
Ahol Shrutgyanam